________________
४-साधुतत्त्वम् गा-१४७
२०५
हासादयस्तु सुज्ञाना एव । २-मानुषा अपि हासप्रद्वेषविमर्शकशीलप्रतिषेवणासमत्थाः, कुशीलमब्रह्म तस्य प्रतिषेवणा । ३-तैरश्चा आहारहेतुभयद्वेषापत्यलयनसंरक्षणोद्भवाः । ४-आत्मसंवेद्यास्तु घट्टनप्रपतनस्तम्भनश्लेषणनिमित्ताः, तत्र घट्टनेन क्वचिञ्चक्षुषि रजःप्रपाते सति तन्मलनेन, प्रपतनेन गर्तकीलादौ स्खलनाद् भूमौ निपतनेन, स्तम्भनेन हस्तपादादेः स्वापात्स्तब्धत्वेन, श्लेषणेन करचरणादेराकुञ्चितस्य वातदोषात्तथैव लगनेन ।
ध्यानमन्तर्मुहूर्तमेकवस्तुनि चित्तावस्थानम्, तदातरौद्रधर्म्यशुक्लभेदभिन्नम्, १-तत्र ऋतं दुःखम्, तत्र भवमार्त्तमनिष्टेतरविषयवियोगाशंसनादि चिन्तारूपम्, २-रोदयत्यपरानिति रुद्रः, प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रं हिंसाद्यतिनिस्त्रिंशताध्यवसानम्, ३-धर्मः क्षान्त्यादिलक्षणस्तस्मादनपेतं धर्म्य सूत्रार्थाद्यनुचिन्तनम्, ४-शुक्लं शुचि निर्मलं सकलमिथ्यात्वादिमलापगमाद्, यद्वा शुगिति दुःखमष्टप्रकारं वा कर्म, ततः शुचं क्लमयति निरस्यतीति शुक्लमर्थाद् व्यञ्जने व्यञ्जनादर्थे योगायोगान्तरे च सङ्क्रामतः पूर्वगतश्रुतालम्बनमेकद्रव्यगतोत्पादादिपर्यायेषु नानानयानुचिन्तनमित्यादिकम्। एतद्भेदस्वरूपं च सविस्तरं ध्यानशतकादवसेयमिह तु नोच्यते ग्रन्थविस्तरभयात् ।
सामायिकमिति समो रागद्वेषरहित आत्मपरिणामस्तस्याऽऽयो लाभः समायस्तत्र भवं सामायिकं तच्च सम्यक्त्वश्रुतदेशविरतिसर्वविरतिभेदभिन्नम् । __ भाष्यत इति भाषा वचनम्, सत्याऽसत्यमिश्राऽसत्यामृषास्वरूपा, १-तत्र सत्याऽस्त्यात्मेत्यादि, २-असत्या नास्त्यात्मेत्यादि, ३-मिश्रा पुनरुभयरूपा, यथाऽविदित्वाऽप्यस्मिन्नगरे दश दारका जाता मृता वेत्याह, ४-असत्याऽमृषामन्त्रणादिका, यथा हे देवदत्त ! इत्यादि।
धर्मः प्राग्वर्णितशब्दार्थो दानशीलतपोभावनामयः। एते विकथादयो नव पदार्थाश्चतुर्गुणा भावितनीत्या चतुराहता भवन्ति सूरिगुणाः षट्त्रिंशदिति भावः, इति गाथार्थः ।।१४६ ।।
चक्रे० : तथा - देव० : एवं षट्त्रिंशिकाभिः सूरिगुणानभिधाय साम्प्रतं सामान्येनैव तानाऽऽह -
पंचमहव्वयजुत्तो पंचविहायारपालणुज्जुत्तो ।
पंचसमिओ तिगुत्तो छत्तीस गुणो गुरू होइ ।।१४७।। १. इह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वमवसेयमिति गाथार्थः T.C