________________
४-साधुतत्त्वम् गा-१४६
२०३
नेपथ्यं कञ्चुकपरिधानादिनिवेशविशेषरूपम्, यथा -
धिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् ।
यद्यौवनं न यूनां चक्षुर्मोदाय भवतीसदेति ।। [ ] स्त्रीकथायां चैते दोषाः -
आयपरमोहुदीरणा उड्डाहो सुत्तमाइपरिहाणी ।
बंभवए य अगुत्ती पसंगदोसा य गमणाई ।। [निशीथसू. १२१] उन्निक्रमणादयः, भक्तकथा-आवापनिर्वापाऽऽरम्भनिष्ठानवर्णनस्वभावा, तत्र शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्यावापकथा, एतावन्तस्तत्र पक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथा, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद्दविणं तत्रोपयुज्यत इति निष्ठानकथेति, उक्तं च -
सागघयादावावो पक्कमपक्कं तु होइ निव्वाओ । आरंभ तित्तिराई निट्ठाणं जा सयसहस्सं ।। [निशीथसू. १२३] इह चामी दोषाःआहारमंतरेणावि गहिओ जायई स इंगालं ।
अजिइंदिय ओदरिआ वाओ य अणुन्न दोसा य ।। [निशीथसू. १२४] देशकथा छन्दविधिविकल्पनेपथ्यविकत्थनस्वरूपा, तत्र छन्दो गम्याऽगम्यविभागः, यथा लाटदेशे मातुलभगिनी गम्या, अन्यत्राऽगम्येति । विधिर्या यत्र देशे भोजनादिविरचना । विकल्पो यो यत्र नदीकूपसारण्यादिभिः सस्यनिष्पत्तिप्रकारः, गृहदेवकुलनिवेशग्रामनगरादि विकल्पश्च । नेपथ्यं स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च, इह दोषाः -
रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिगरणं ।
बहुगुण इमो त्ति दोसो सोउं गमणं च अण्णेसिं ।। [निशीथसू. १२७] राजकथा नगरादिप्रवेशनिर्गमबलकोशप्रशंसनरूपा, यथा -
सियसिंधुरखंधगओ सियचमरो सियछत्तछन्ननभो । । जणनयणकिरणसेओ एसो पविसइ पुरे राया ।। इत्यादि, दोषाश्चात्र -
१. पक्वाऽपक्वान्नभेदा A