________________
४-साधुतत्त्वम् गा-१४४
साधुभिश्च स्ववर्गे यथाज्येष्ठमेतेषां च पदानां समाहारत्वात् सप्तम्येकवचनम् । ततश्चाऽऽचेलक्यादिषु भणितप्रकारेण यथास्वं विधिनिषेधरूपतया स्थिताः साधवो भवन्तीत्ययमोघकल्पः । एतेष्वेव च प्रथमचरमजिनसाधवः स्थिता एवेति स्थितकल्पस्तेषामिति ।
व्रतानि महाव्रतानि तानि च पुरिमान्तिमतीर्थकृतसाधूनां पञ्च, मध्यमवैदेहिकानां तु ब्रह्मव्रतस्य परिग्रहेऽन्तर्भावाच्चत्वारि, तत्त्वतस्तु तेषामपि पञ्चैव, प्रत्यपादि च -
दुण्हवि दुविहो वि ठिओ एसो आजम्ममेव विन्नेओ ।
इय वयभेया दुविहो एगविहो चेव तत्तेणं ।। [पञ्चाशक-१७/२८] ज्येष्ठो रत्नाधिकः स चोपस्थापनादिनमाश्रित्य प्रथमान्तिमतीर्थसाधूनां तदन्येषां तु प्रव्रज्यादिनमाश्रित्य यदि निरतिचारः प्रतिपादितं च -
उवठावणाए जेट्ठो विण्णेओ पुरिमपच्छिमजिणाणं ।
पव्वज्जाए उ तहा मज्झिमगाणं निरइयारो ।। [पञ्चाशक-१७/२९] अयमप्युभयेषामपि ज्येष्ठत्वेन स्थित एव ।। प्रतिक्रमणमुभयसन्ध्यं षड्विधावश्यककरणम्, तद्व्यवस्था चैवम् -
सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स।
मज्झिमगाण जिणाणं कारणजाए उ पडिक्कमणं ।। [पञ्चाशक-१७/३२] सप्तम्येकवचनं प्राग्वत्, मासमित्यनुस्वारोऽलाक्षणिकः । परि सर्वथा वसनमेकत्र निवासो निरुक्तविधेः पर्युषणा एतद्द्वयलक्षणः कल्प आचारो मासपर्युषणकल्पस्तस्मिंश्च स्थिता स्थितेत्यादि प्राग्वत् तत्र मासकल्पऋतुबद्धकाल एकक्षेत्रे त्रिंशदहोरात्रावस्थानरूपः, स चेत्थम्
पुरिमेयरतित्थयराण मासकल्पो ठिओ विणिद्दिह्रो ।
मज्झिमगाणजिणाणं अट्ठियओ एस विन्नेओ ।। [पञ्चाशक-१७/३५] पर्युषणाकल्पोऽपीत्थमेव, तथा चाऽऽह -
पज्जोसवणाकल्पोऽपेवं पुरिमेयराइभेएणं । उक्कोसेयरभेओ सो नवरं होइ विन्नेओ ।। [पञ्चाशक-१७/३८]