________________
१९८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
एतच्च पुरिमान्तिमतीर्थसाधूनामेवम्, तदितरे तु महामूल्याऽप्रमाणपञ्चवर्णान्यपि गृह्णन्ति । तथा च -
आचेलुक्को धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।
मज्झिमगाण जिणाणं होइ सचेलोऽचेलो वा ।। [पञ्चाशक-१७/१२] औद्देशिकमिहाधाकर्म, तदेकमुद्दिश्य निवृत्तं प्रथमान्तिमतीर्थयोः सर्वैरपि परिहर्त्तव्यम्, तदन्येषु यदर्थं निष्पन्नं तस्यैवैकस्य न कल्पते । शय्यातरो वसतिदाता, राजाचक्रवर्त्यादिस्तयोः पिण्डः समुदानम्, तत्राद्यः -
असणाईया चउरो पाउंछण वत्थ पत्तकंबलगं ।
सूइ छुर कन्नसोहण नहरणिया सागरियपिंडो ।। [नवतत्त्वप्र. ७३] अयं च सर्वतीर्थेषु सर्वैरपि परिहर्त्तव्यः, यदाह -
पुरपच्छिमवज्जेहिं अविकम्मं जिणवरेहिं लेसेणं ।
भत्तं विदेहएहि य न य सागरियस्स पिंडो उ ।। [प्रव.सारो० ८०७] लिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वा वि।
जुत्तस्स अजुत्तस्स व रसावणो इत्थ दिलुतो ।। [प्रव.सारो० ८०५] एष पुनः शय्यातरपिण्डो न भवति, तद्यथा -
तणडगलछार मल्लग सेज्जासंथारपीठलेवाई ।
सिज्जायर पिंडो सो न होइ सेहो य सोवहिओ ।। [नवतत्त्वप्र. ७४] राजपिण्डस्तु -
असणाईया चउरो वत्थं पायं च कंबलं चेव ।
पाउंच्छणगं च तहा अट्ठविहो रायपिंडो उ ।। [पञ्चाशक-१७/२२] अयं तु प्रथमान्तिमानां वर्ण्यः, मध्यमवैदेहिकास्तु दोषाऽसम्भव गृह्णन्त्येव । कृतिकर्म-वन्दनकम्, तच्च सर्वसाध्वीभिस्तद्दिनदीक्षितस्यापि साधोविधेयम्, अभ्यधायि च -
सव्वाहिं संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसुत्तमु त्ति धम्मो सव्वजिणाणं पि तित्थेसु ।। [पञ्चाशक-१७/२४]