________________
४-साधुतत्त्वम् गा-१४४
रूपमुभयार्हम्,
४-उपयुक्तकृतयोगिगृहीतान्नादेः पश्चाज्जातस्याशुद्धस्य त्यागो विवेकार्हम्, ५-गमनागमनविहारादिषु पञ्चविंशत्युच्छ्वासादिचिन्तनं व्युत्सर्गार्हम्, ६- यस्मिन् प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोऽर्हम्, ७- एवं यत्र पञ्चकादिपर्यायोच्छेदनम्, तच्छेदार्हम्, ८-यत्र पुनर्व्रतान्यारोप्यन्ते तन्मूलार्हम्, ९-यत्र पुनरनाचीर्णतया व्रतेषु न स्थाप्यते तदनवस्थाप्यार्हम्, १० यत्र च तपोलिङ्गक्षेत्रकालानां पारमञ्चति तत् पाराञ्चितमिति । एते व्रतषट्कायादयश्च सर्वे मिलिताः षट्त्रिंशत् सूरिगुणा भवन्तीति ।।१।।
चक्रे० : तथा
देव० : तथा
-
१९७
आयाराई अट्ट उ तह चेव य दसविहो ये ठिकप्पो । बारस तव छावस्स य सूरिगुणा हुंति छत्तीसं ।। १४४ ।। चक्रे० : आचारादय आचारसम्पदाद्या अष्टौ प्रागुक्तरूपाः । दशविधश्च स्थितकल्पः, चैवम् –
स
आचेलक्कुद्देसिय सेज्जायर रायपिंड किइकम्मे ।
वय जेट्ठ पडिक्कमणे मासं पज्जोसवणकप्पो ।। [ पञ्चवस्तु-१५०० ] द्वादशविधं तपः, षडावश्यकानि सामायिकादीनि, एतेऽपि मेलिताः षट्त्रिंशत् सूरिगुणाः स्युः || १४४ ।।
देव० : भीमादिन्यायेनैकपदलोपादाचार सम्पदादयो अष्टौ वर्णित स्वरूपा एव । तुरुत्तरपद समुच्चये । तथा चैव, चेति समुच्चये, दशविधः, चः पादपूरणे स्थितः पुरिमान्तिमजिनसाधूनां सततासेवनतः स चासौ कल्पश्च मर्यादा स्थितकल्पः स चैवम् -
आचेलुक्कु-द्देसिय-सिज्जायर-रायपिंड-किइकम्मे ।
वय-जेट्ठ-पडिक्कमणे मासं पज्जोसवणकप्पो ।। [पञ्चवस्तु-१५००]
तत्र न विद्यते चेलमस्यासावचेलकस्तस्य भाव आचेलक्यम्, इह चेषदर्थत्वान्नञः, श्वेतमलिनखण्डितजीर्णाल्पमूल्यैः सद्भिरपि चेलैरचेलाः साधवः, यथानुदरा कन्येति, भणितं च
--
तह थोव जुण्णकुच्छियचेलेहिं वि भण्णइ अचेलो त्ति ।
जह तंतुसालिय हुं दे पोत्तिं नग्गिया मोत्ति ।। [ ] १. य ठिइकप्पो PK ठिईकप्पो T.C