________________
४-साधुतत्त्वम् गा-१४३
प्रायश्चित्तं दशधा यदाह -
आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे ।
तवछेयमूल अणवट्ठया य पारंचिए चेव ।। [पञ्चा० १६-२, ओघनि० १४१८] एते मिलिताः सूरिगुणाः षट्त्रिंशद्भवन्ति ।।१४३ ।। देव० : व्रतषट्कादयोऽष्टादशैव वर्णितस्वरूपा, अमीषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक्प्रायश्चित्तपरिज्ञानतः । भावप्रत्ययस्य लुप्तत्वादाऽऽचारवत्त्वादयोऽष्टावेव, ते चामी -
आयारव मवहारव ववहारुव्वीलए पकुव्वी य ।
निज्जव अवायदंसी अपरिस्सावी य बोधव्वे ।। [व्यवहारभा० ४२०] अस्याश्चार्थः - १-आचारवान् ज्ञानसेवाभ्यां पञ्चप्रकाराचारयुक्तः, अयं हि गुणवत्त्वेन श्रद्धेयवाक्यो भवति, २-अवधार आलोचकोक्तापराधानामवधारणं तद्वान्, स हि सर्वापराधेषु यथावच्छुद्धिदानसमर्थो भवति, ३-'ववहार'त्ति मतुब्लोपाद् व्यवहारवानागमश्रुताऽऽज्ञाधारणाजीतलक्षणपञ्चप्रकारव्यवहारान्यतरयुक्तः, स हि यथावच्छुद्धिकरणसमर्थो भवति, ४-लज्जादिनातिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति विगतलज्जं करोतीत्यपव्रीडकः, स ह्यालोचकस्यात्यन्तमुपकारको भवति, पदत्रयस्य च कर्मधारयः, ५-आलोचितस्य प्रायश्चित्तदानेन शुद्धि प्रकर्षण कारयतीत्येवंशील इत्येतदर्थस्यागमिकस्य कुधातोर्दर्शनात्प्रकुर्वी, चः समुच्चये, ६-निज्जवत्ति प्राकृतत्वाद् निर्यापकः, अयं हि यथा निर्वहति तथा प्रायश्चित्तं कारयति, ७-अपायान् सातिचाराणां दुर्लभबोधिकत्वादीन दर्शयतीत्यपायदर्शी, ८-न परिश्रवत्यालोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी, तदन्यो ह्यालोचकानां लाघवकारी। चः समुच्चये । बोद्धव्यो ज्ञेयः, आचार्य इति योगः, इह च गुणगुणिनोः कथञ्चिदभेदादित्थं निर्देशोऽन्यथाऽऽचारवत्वमित्यादि द्रष्टव्यमिति। तथा प्रायश्चित्तं दशधा, तच्चैवम् -
आलोयणपडिक्कमणे मीसविवेगे तहा वि उस्सग्गे ।
तवछेयमूल अणवठ्ठया य पारंचिए चेव [पञ्चा. १६-२, ओघनि० १४१८ ] १-तत्रालोचनं गुरोरतीचारप्रकाशनम्, २-प्रतीपं क्रमणं प्रतिक्रमणमतीचारान्निवर्त्तनम्, मिथ्या१. इत्येतदर्थस्य सामायिकस्य T,B,C