________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
चरणजुओ-मयरहिओ, अनिययवित्ती- अचंचलो चेव । जुग - परिचय - उस्सग्गो - उदत्तघोसाइ विन्नाया ।। चउरंस-अंकुटाई- बहिरत्तणवज्जिओ तवे सत्तो । वाइ- महुरत्त निम्मिय, फुडवयणो संपया वयणे ।। जोगे-परिणयवयणो-निज्जवया-वायणाइ निव्वहणे । उग्गह-ईह - अवाया-धारण मईसंपया चउरो ।। सत्ती- पुरिसं खित्तं वत्युं नाउं पउंजए वायं । गणजोगं - संसत्तं - सज्झाए - सिक्खगं जाण ।। आयारे सुअविण, विक्खेवे चेव होइ बोद्धव्वे । दोसस्स परिग्घाए, विणए चउहेस पडिवत्ती ।। इति गाथार्थः ।। ३७।।
चक्रे० : तथा
देव० : तथा
१९४
-
वयछक्काई अट्ठारसेव आयारवाइ अट्ठेव ।
पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं । । १४३।।
चक्रे० : व्रतषट्कादयोऽष्टादश प्रागुक्ताः, एषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक् प्रायश्चित्तज्ञानात् । भावप्रत्ययस्य लुप्तत्वादाऽऽचारवत्त्वादयोऽष्टावेव, ते चामी - आयारव मवहारव ववहारुव्वीलए पकुव्वी य ।
निज्जव अवायसी अपरिस्सावी य बोधव्वे ।। [ व्यव. भा० ४२० ]
-
अस्याश्चार्थः - १-आचारवान् ज्ञानसेवाभ्यां पञ्चप्रकाराचारयुक्तोऽयं हि गुणवत्त्वेन श्रद्धेयवाक्यो भवति । २- अवधारः आलोचकोक्तापराधानामवधारणम्, तद्वान्, स हि सर्वाऽपराधेषु यथावच्छुद्धिदानसमर्थो भवति। ३-‘ववहार `त्ति मतुब्लोपाद् व्यवहारवानागमश्रुताऽऽज्ञाधारणाजीतलक्षणपञ्चप्रकारव्यवहाराऽन्यतरयुक्तः, सोऽपि यथावच्छुद्धिकरणसमर्थो भवति । ४ - लज्जादिनाऽतिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति, विगतलज्जं करोतीति अपव्रीडकः, स ह्यालोचकस्यात्यन्तमुपकारको भवति, पदत्रयस्य कर्मधारयः । ५-आलोचितस्य प्रायश्चित्तदानेन प्रकर्षेण शुद्धि कारयतीत्येवंशील इत्येतदर्थस्य सामायिकस्य कुर्व्धातोर्दर्शनात् प्रकुर्वी । ६ - निज्जव 'त्ति प्राकृतत्वान्निर्यापकोऽयं हि यथा निर्वहति तथा प्रायश्चित्तं कारयति । ७ - अपायान् दुर्लभबोधिकत्वादीन् सातिचाराणां दर्शयतीत्यपायदर्शी । ८ - न परिश्रवत्यालोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी । तदन्यो ह्यालोचकानां लाघवकारी बोद्धव्यः ।
-