________________
४-साधुतत्त्वम् गा-१४२
ग्रहणं अहमेव जातिमानित्यादिरूपेणावधारणं संप्रग्रहो न तथाऽसम्प्रग्रहः, जात्याद्यनुत्सिक्तत्वमित्यर्थः, अनियता वृत्तिः-अनियतविहारस्वरूपा, एवं वृद्धशीलता वपुषि मनसि च निभृतस्वभावता, निर्विकारतेत्यर्थः।
अथ श्रुतसम्पच्चतुर्धा, तद्यथा- १-बहुश्रुतता २-परिचितसूत्रता ३-घोषविशुद्धिकरणता ४-उदात्तानुदात्तादिस्वरविशुद्धयाराधयिता।
शरीरसम्पच्चतुर्धा- १-आरोहपरिणाहयुक्तता २-अनवत्राप्यता ३-परिपूर्णेन्द्रियता ४-स्थिरसंहननता च, १-अत्राऽऽरोहो दैर्घ्य परिणाहो विस्तरस्ताभ्यां लक्षणप्रमाणसमन्विताभ्यां युक्तताऽऽरोहपरिणाहयुक्तता, २-अविद्यमानमवत्राप्यमवत्रपणं लज्जनं यस्य स तथा, यद्वाऽवत्रापयितुं लज्जायितुमर्हः शक्यो वाऽवत्राप्यो लज्जनीयो न तथाऽनवत्राप्यः, लक्षणसम्पूर्णाहीनसर्वाङ्गत्वेन सर्वस्याप्यलज्जनीय इत्यर्थः, तद्भावोऽनवत्राप्यता ३-परिपूर्णान्यनुपहतानि चक्षुरादीनीन्द्रियाणि यस्य स तथा तद्भावः परिपूर्णेन्द्रियता।
वचनसम्पच्चतुर्द्धा- १-आदेयवचनता २-मधुरवचनता ३-अनिश्रितवचनता ४-असंदिग्धवचनता, तत्र प्रकृष्टार्थप्रतिपादकमपरुषं सैश्वर्यगाम्भीर्यादिगुणोपेतमत एव श्रोतृजनाल्हादकं मधुरं वचनं यस्य स तथा तद्भावो मधुरवचनता, रागाद्यनिश्रितं वचनं यस्य स तथा तद्भावोऽनिश्रितवचनता, परिस्फुटवचनता ।
वाचनासम्पच्चतुर्द्धा-१-विदित्वोद्देशनं २-विदित्वा समुद्देशनं ३-परिनिर्वाप्य वचनता ४-अर्थनिर्यापणा च, तत्र पारिणामकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यद्यस्य योग्यं तत्तस्यैवोद्दिशतः समुद्दिशतश्च विदित्वोद्देशनविदित्वासमुद्देशने ज्ञातव्ये, परिनिर्वाप्य पूर्वप्रदत्तसूत्रालापकान् जाहकदृष्टान्तेन शिष्यस्य सम्यक् परिणमय्य ततोऽपरालापकानां वाचना परिनिर्वाप्यवाचना, अर्थस्य सूत्राभिधेयस्य निर्यापणापूर्वापरसाङ्गत्येन विमृशतः प्ररूपयतो वा सम्यग् निर्वाहनाऽर्थनिर्यापणा ।
सम्यगवग्रहेहापायधारणाभेदान्मतिसम्पच्चतुर्धा ।
प्रयोगोऽत्र प्रयोजनसिद्धये व्यापारस्तत्काले मतिर्वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्की ऽऽत्मपुरुषक्षेत्रवस्तुपरिज्ञानभेदात्, १-तत्रात्मज्ञानं वाद्यादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम शक्तिरस्ति न वेत्याद्यात्मीयस्वरूपपर्यालोचनम्, २-पुरुषज्ञानं किमयं प्रतिपादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा प्रतिभादिमानितरो वेत्यादि परिभावनम्, ३-क्षेत्रज्ञानं किमिदं क्षेत्रं संयमनिर्वाहानुकूलं न वा साधुभिर्भावितमभावितं वेत्यादि विमर्शनम्, ४-वस्तुज्ञानं किमिदमाहारादि वस्तु मम हितं न वेत्यादि निरूपणम्। __ संग्रहपरिज्ञासम्पदपि चतुर्धा, तत्र बालदुर्बलग्लानबहुयतिजननिर्वाहयोग्यक्षेत्रग्रहणलक्षणा प्रथमा निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया, उक्तञ्च जीतकल्पे ‘पीढगफलगरगहणे न उ मइलंती निसिज्जाई'।