________________
१९०
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
इत्येतद्गथातोऽवसेयः, तत्राऽऽचारविनयः संयमतपोगणैकाकिविहारविषयचतुर्विधसामाचारीस्वरूपः १-तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयंकरणान्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी, २- पाक्षिकाष्टमीचतुर्दश्यादिषु द्वादशविधतपसि स्वपरयोर्व्यापारणरूपा तपः सामाचारी, ३ - प्रत्युपेक्षणादिषु बालग्लानादिवैयावृत्त्यादिषु च विषीदद्गणप्रवर्तनस्वयमुद्यमनस्वभावा गणसामाचारी, ४ - एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणैकाकिविहारसामाचारीति । १ ।
श्रुतविनयः १- सूत्रग्राहण २ - अर्थश्रावण ३-हित ४- निःशेषवाचनात्मकश्च हितं योग्यतानुसारेण, वाचयतो निःशेषमापरिसमाप्तेः, शेषं स्पष्टमिति । २ ।
विक्षेपणाविनयश्च– १-मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापनम्, २- सम्यग्दृष्टेस्त्वारम्भविक्षेपेण चारित्राध्यासनम्, ३- च्युतधर्मस्य धर्मे स्थापनम् ४ - प्रतिपन्नचारित्रस्य परस्यात्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः । ३ ।
तथा दोषनिर्घातविनयः १- कुद्धस्य क्रोधाऽपनयनम्, २- दुष्टस्य विषयादिदोषवतो दोषाऽपनयनम्, ३-काङ्क्षितस्य परसमयादिकाङ्क्षावतः काङ्क्षाछेदः, ४- स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूपः।४। एवं ह्यात्मानं परं च विनयतीति विनयः, इति दिग्मात्रमिदम्, विशेषस्तु व्यवहारभाष्यादवसेय इति । इमे मीलिताः षट्त्रिंशद्गुणास्तस्य गणिनो भवन्तीति गाथार्थः ।। १४२ ।। * उपदेशमाला पुष्पमालायाम्-३३४ *
अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह
अट्ठविहा गणिसंपय आयाराई चउव्विहेक्वेक्का । चउहा विणयपवित्ती छत्तीसगुणा इमे गुरुणो ।।
तद्यथा
गणोऽस्यास्तीति गण्याचार्यस्तस्य सम्पत् समृद्धिः, सा चेहाचारादिभेदादष्टधा, १- आचारसम्पत् २- श्रुतसम्पत् ३- शरीरसम्पत् ४-वचनसम्पत् ५-वाचनासम्पत् ६-मतिसम्पत् ७- प्रयोगमतिसम्पत् ८ - संग्रहपरिज्ञासम्पत् तथा चाह
आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठविहा संगपरिणा ।। एतासु चैकैका चतुर्विधा, तत्राचारसम्पत्तावदित्थं चतुर्धा - १ - संयमध्रुवयोगयुक्तता २- असंप्रग्रहः ३-अनियता वृत्तिः ४- वृद्धशीलता चेति तत्र संयमश्चारित्रं तस्मिन् ध्रुवो नित्यो योगः समाधिस्तद्युक्तता, कोऽर्थः ? तत्र सततोपयुक्तता, तथा समन्तात् प्रकर्षेण जातिश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो