________________
४- साधुतत्त्वम् गा - १४२
तत्राचरणमाचारोऽनुष्ठानम्, स एव सम्पद्विभूतिस्तस्य वा सम्पत्सम्पत्तिराचारसम्पत्, सा चतुर्धा, तथा १-संयमध्रुवयोगयुक्तता चरणे नित्यं समाध्युपयुक्ततेत्यर्थः, २-असम्प्रग्रह आत्मनो जात्याद्युत्सेकरूपग्रहवर्जनमिति भावः, ३-अनियतवृत्तिरनियतविहार इति योऽर्थः, ४-वृद्धशीलता वपुर्मनसोर्निर्विकारतेति यावदिति ।
एवं श्रुतसम्पत् सापि चतुर्धा, तद्यथा - १- बहुश्रुतता युगप्रधानागमतेत्यर्थः, २-परिचितसूत्रतोत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता, ३ - विचित्रसूत्रता स्वसमयादिभेदात्, ४-घोषविशुद्धिकरणतोदात्तादिविज्ञानादिति ।
१-आरोहपरिणाहयुक्ततोचितदैर्घ्यादिविस्तरतेत्यर्थः, २- अनवत्र
शरीरसम्पच्चतुर्धा, तद्यथा प्यताऽलज्जनीयाङ्गतेत्यर्थः, ३ - परिपूर्णेन्द्रियताऽनुपहतचक्षुरादिकरणता, ४- स्थिरसंहननता तपःप्रभृतिषु शक्तियुक्ततेति ।
सरसवाक्यता,
-
वचनसम्पच्चतुर्धा, तद्यथा १-आदेयवचनता, २-मधुरवचनता ३-अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः, ४ असन्दिग्धवचनता परिस्फुटवचनतेत्यर्थः । वाचनासम्पच्चतुर्धा, तद्यथा १ - विदित्वोद्देशनं, परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः, २-विदित्वा समुद्देशनम्, ३- परिनिर्वाप्यवाचना, पूर्वदत्तालापकान् शिष्यमधिगमय्य पुनः सूत्रदानम्, ४-अर्थनिर्यापणाऽर्थस्य पूर्वापरसाङ्गत्येन गमनिकेति ।
मतिसम्पच्चतुर्धा, तद्यथा १- अवग्रह २ - ईहा ३- अपाय ४- धारणाभेदादिति । प्रयोगमतिसम्पच्चतुर्धा, इह प्रयोगो वादमुद्रा, १ - तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये, २- पुरुषपरिज्ञानं किं नयोऽयं वाद्यादि, ३- क्षेत्रपरिज्ञानं किमिदं मायाबहुलमन्यथा वा, साधुभिर्भावितमभावितं वेति विमर्शनम्, ४ - वस्तुपरिज्ञानं वस्तु वादकाले राजाऽमात्यादिरिति ।
-
-
२. ग्राह T. C
तथा विनयश्चतुर्भेदः, स च -
-
संग्रहपरिज्ञा, संग्रहः स्वीकरणम्, तत्र परिज्ञाज्ञानमष्टमीसम्पच्चतुर्धा, तद्यथा - १- बालादियोग्यक्षेत्रविषया, २- पीठफलकादिविषया, ३ - यथासमयं स्वाध्यायभिक्षाविषया, ४ - यथोचितविनयादिविषया चेति ।
१८९
आयारे सुविण विक्खिवणे चेव होइ बोद्धव्वे ।
दोसस्स य निग्घा विणए चउहेस पडिवत्ति ।। [ प्रव. सारो० ५४६]