________________
१८८
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
तथा विनयश्चतुर्भेदः स च -
__ आयारे सुयविणए विक्खिवणे चेव होइ बोद्धव्वे ।
दोसस्स य निग्घाए विणए चउहेस पडिवत्ती ।। [प्रव.सा. ५४६] एतद्गाथातोऽवसेयः, तत्राऽऽचारविनयः संयमतपोगणैकाकिविहारविषयचतुर्विधसामाचारीस्वरूपः । १-तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयं करणाऽन्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी। २-पाक्षिकाष्टमीचतुर्दश्यादिषु द्वादशविधतपसि स्वपरयोर्व्यापारणरूपा तपःसामाचारी, प्रत्युपेक्षणादिषु, बालालानादिवैयावृत्यादिषु च ३-विषीदद्गणप्रवर्त्तनस्वयमुद्यमनस्वभावा गणसामाचारी ४-एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणा एकाकिविहारसामाचारी।
श्रुतविनयः १-सूत्रग्राहण २-अर्थश्रावण ३-हित ४-निःशेषवाचनात्मकः । हितं योग्यताऽनुसारेण वाचयतो निःशेषमापरिसमाप्तेः ।
१-विक्षेपणाविनयश्च मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापनम्।२-सम्यग्दृष्टेस्त्वारम्भविक्षेपणाञ्चारित्राध्यासनम्। ३-च्युतधर्मस्य धर्म स्थापनम्। ४-प्रतिपन्नचारित्रस्य परस्याऽऽत्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः ।
तथा १-दोषनिर्घातविनयः क्रुद्धस्य क्रोधापनयनम्। २-दुष्टस्य विषयादिदोषवतो दोषाऽपनयनम् । ३-काक्षितस्य परसमयादिकाङ्क्षावतः काङ्क्षाच्छेदः। ४-स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूपः।
एवमात्मानं परं च विनयतीति विनय इति दिग्मात्रमिदम्, विशेषस्तु व्यवहारभाष्यादेरवसेयः । इमे मिलिताः षट्त्रिंशद्गुणास्तस्य गणिनो भवन्तीति गाथार्थः ।।१४२ ।।
देव० : गणः समुदायो गुणानां साधूनां वा यस्यास्ति स गणी, भूम्नि अतिशायिने वा इन्' अतिशायी वाचार्यस्तस्य सम्पत्समृद्धिर्भावरूपा गणिसम्पदष्टविधाष्टप्रकारा, आचारश्रुतशरीरवचनवाचनामतिप्रयोगमतिसङ्ग्रहपरिज्ञाभेदाद् नवरं केवलं चतुर्गुणाः प्रतिभेदं चतुर्भिराहता द्वात्रिंशद्भवन्ति सूरिगुणा इति योगः ।
१. भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्तीति स गणी आचार्यस्तस्य T,C