________________
४-साधुतत्त्वम् गा-१४२
१८७
२-श्रुत ३-शरीर ४-वचन ५-वाचना ६-मति ७-प्रयोगमति ८-संग्रहपरिज्ञाभेदात्, नवरं चतुर्गुणाश्चतुर्भिर्गुणिता भवन्ति द्वात्रिंशत् सूरिगुणाः ।
तत्राचारोऽनुष्ठानम्, स एव सम्पत् सा चतुर्द्धा । तद्यथा - १-संयमध्रुवयोगयुक्तता - चरणे नित्यं समाध्युपयुक्ततेत्यर्थः २-असंप्रग्रहः - आत्मनो जात्याधुत्सेकरूपाऽऽग्रहवर्जनम् ३-अनियतवृत्तिः - अनियतविहारः ४-वृद्धशीलता - वपुर्मनसोर्निर्विकारता ।
एवं श्रुतसम्पञ्चतुर्धा, १-बहुश्रुतता - युगप्रधानागमतेत्यर्थः २-परिचितसूत्रता - उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता ३-विचित्रसूत्रता - स्वसमयादिभेदात् ४-घोषविशुद्धिकरणता - उदात्तादिविज्ञानात् ।
शरीरसम्पञ्चतुर्धा, १-आरोहपरिणाहयुक्तता - उचितदैर्ध्यादिविस्तरतेत्यर्थः २-अनवत्रप्यता - अलज्जनीयाऽङ्गता ३-परिपूर्णेन्द्रियताऽनुपहतचक्षुरादिकरणता ४-स्थिरसंहननता - तपःप्रभृतिषु शक्तियुक्तता ।
वचनसम्पञ्चतुर्धा, १-आदेयवचनता २-मधुरवचनता ३-अनिश्रितवचनता-मध्यस्थवचनतेत्यर्थः ४-असन्दिग्धवचनता।
वाचनासम्पञ्चतुर्धा, १-विदित्वोद्देशनम् - परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २-विदित्वा समुद्देशनम् ३-परिनिर्वाप्यवाचना - पूर्वदत्ताऽऽलापकान् शिष्यमधिगमय्य पुनः सूत्रदानम् ४-अर्थनिर्यापणा - अर्थस्य पूर्वापरसाङ्गत्येन गमनिका। मतिसम्पञ्चतुर्धा, १-अवग्रह २-इहा ३-अपाय ४-धारणाभेदात् । प्रयोगमतिसम्पञ्चतुर्धा इह प्रयोगो वादमुद्रा, १-तत्रात्मपरिज्ञानम् - वादादिसामर्थ्यविषये २-पुरुषपरिज्ञानम् - किमयं वादी साङ्ख्यो बौद्धो वा ? ३-क्षेत्रपरिज्ञानम् - किमिदं मायाबहुलमन्यथा वा ? साधुभावितमभावितं वेति ? ४-वस्तुज्ञानम् - किमिदं राजाऽमात्यसभ्यादि भद्रकमभद्रकं वा ?
संग्रह: स्वीकरणम्, तत्र परिज्ञाज्ञानमष्टमी सम्पञ्चतुर्धा, १-पीठफलकादिद्रव्यविषया २-बालादियोग्यक्षेत्रविषया ३-यथासमयं स्वाध्याय - भिक्षाविषया ४-यथोचितविनयादिविषया चेति।