________________
१८६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
* स्तवपरिज्ञायाम् - ७५ *
ऊत्तं न कयाइवि इमाणं संखं इमं तु अहिगि । जं धरा सुत्द्दट्ठा वंदणिज्जाओ ।।
ऊनत्वं न कदाचिदप्येतेषां शीलाङ्गानां संख्यामेवाधिकृत्य - आश्रित्य यस्मादेतद्धराअष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीया नान्ये 'अट्ठारससहस्ससीलंगधारा' इत्यादि वचनप्रामाण्यात् । इदं तु बोध्यम्-यत्किञ्चिदेकाद्युत्तरगुणहीनत्वेऽपि मूलगुणस्थैर्येण चारित्रवतां योग्यतया शीलाङ्गसङ्ख्या पूरणीया, प्रतिज्ञाकालीनसंयमस्थानान्यसंयमस्थानानां षट्स्थानपतितानां चोक्तवदेव तुल्यत्वोपपत्तेः 'संजमठाणठियाणं किइकम्मं बाहिराणं भइअव्वं' इत्याद्युक्तस्योपपत्तेश्चेत्यधिकमस्मत्कृतगुरुतत्वविनिश्चये । उत्सर्गविषयो वाऽयम् ।।७५।।
चक्रे० : उक्तमेवार्थं किञ्चिद्विशिष्टमाहुः
देव० : उक्तमेवार्थं किञ्चिद्विशिष्टमाह
पंचविहायाररओ अट्ठारससहस्सगुणगणोवेओ ।
एस गुरू मह सुंदर भणिओ कम्मट्ठमहणेहिं । । १४१ । ।
चक्रे० : स्पष्टा, नवरं पञ्चविध आचारो ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् । ।१४१ ।। देव० : पञ्चविधः पञ्चप्रकार आचारो व्यवहारः, स च ज्ञानदर्शनचारित्रतपोवीर्यविषयस्तत्र रतः सक्तः स्वयमासेवनतोऽन्योपदेशतश्च प्रागभिहितशीलाङ्गलक्षणाष्टादशसहस्रगुणगणोपेतः, एवंविशिष्टे गुरौ जातहर्षः शिष्यं प्रत्याह ग्रन्थकारः, हे सुन्दर ! गुणानुरागप्रधान एष गुरुर्मम भणितः कर्माष्टमथनैर्जिनैः । इह विशेषणपरनिपातः प्राकृतत्वादिति गाथार्थः । । १४१ ।।
चक्रे० : एवं साधुस्वरूपमाख्यायेदानीं षट्त्रिंशतिकाषट्केनाचार्यगुणानाख्यातुं गाथासमूहमाहुः
देव० : तदियता सामान्येन साधुस्वरूपमुपवर्ण्य साम्प्रतं विचित्रषट्त्रिंशतिकाभिराचार्यगुणाभिधित्सया गाथाकदम्बकमाह
-
अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं ।
विणओ य उभेओ छत्तीसगुणा इमे तस्स ।।१४२ ।।
चक्रे० : गणो गच्छोऽस्याऽस्तीति गण्याचार्यस्तस्य सम्पत्समृद्धिरष्टविधा - १ - आचार