________________
४-साधुतत्त्वम् गा-१४०
एकद्व्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेषु संज्ञासु पञ्चदश, इन्द्रियेष्वेकत्रिंशत्, भूम्यादिषु त्रयोविंशत्यधिकं सहस्रम्, एवं क्षमादिष्वपि, इत्येषां च परस्पराभ्यासे द्वे कोटीसहस्रे, त्रीणि कोटीशतानि, चतुरशीतिकोटीनामेकपञ्चाशल्लक्षाणि, त्रिषष्टिसहस्राणि, द्वे शते, पञ्चषष्टिश्चेति, अङ्कतोऽपि २३८४५१६३२६५. ततः किमष्टादशैव सहस्राण्युक्तानि ? उच्यते यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनम्, न चैवमेकतरस्यापि, शीलाङ्गभङ्गकस्य शेषसद्भाव एव भावाद्, अन्यथा सर्वविरतिरेव न स्याद्, अभ्यधायि च -
इत्थ इमं विन्नेयं अईयं पज्जं तु बुद्धिमंतेहिं । एक्कम्मि वि सुपरिसुद्धं सीलंगं सेससब्भावे ।। तथा – इक्को वायपएसोऽसंखेयपएसो संगओ जहउ ।
एयंपि तहा नेयं सतत्तचाओ इयरहा उ ।। [स्तवपरिज्ञा-६१, ६२] इति गाथार्थः ।।१३९ ।। चक्रे० : अत एव - देव० : अत एव च -
ऊणत्तं न कयाइ वि इमाण संखं इमं तु अहिगिञ्च ।
जं एयधरा सुत्ते निद्दिट्ठा वंदणिज्जाओ।।१४०।। चक्रे० : ऊनत्वमेकादिभिहीनत्वं न कदाचिदपि दुःषमादावप्येषां शीलाङ्गानां सङ्ख्यामिमां त्वष्टादशशीलाङ्गसहस्रलक्षणामधिकृत्य, यद् यस्मादेतद्धरा अष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीयाः ‘अट्ठारससीलंगसहस्सधारा' इति वचनेन ।।१४० ।।
देव० : ऊनत्वमेकादिभिर्हीनत्वं नैव कदाचिदपि दुःषमादावप्येतेषां शीलाङ्गानां सङ्ख्यां परिमाणमिमामेतामष्टादशसहस्रलक्षणाम्, तुरेवकारार्थो योजित एव, अधिकृत्याश्रित्य, कुत एतदित्याह – यद्यस्मादेतद्धरास्त्वष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा उक्ता वन्दनीया नमस्कारार्हाः, नान्ये 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादयमपि, तुशब्द एवकारार्थः प्राग्योजितश्चेति गाथार्थः ।।१४० ।।
१. वंदणिज्जाउ T.C२. प्रणम्याः T,B,C