SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तथाहि - न हन्ति मनसाऽऽहारसंज्ञासंवृतः श्रोत्रेन्द्रियसंवरणः पृथिवीजीवान् क्षान्तिसम्पन्न इत्येकं शीला ङ्गम्, ___ एवं मार्दवादिपदयोगेनापि पृथिवीकायाभिलापेन दश शीलाङ्गविकल्पाः स्युः, एवमकायाद्यभिलापैरपि दश दश मिलितं जातं शतम्, एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं प्रत्येकं चक्षुरादिभिरपि जातानि पञ्चशतानि, एतानि चाऽऽहारसंज्ञापदेनामुच्यमानानि लब्धानि, एवं भयादिसंज्ञाभिरपि, जाते द्वे सहस्रे, एतावच्च मनसा लब्धम्, एवं वाकायाभ्यामपि, जातानि षट् सहस्राणि, एतानि च स्वयंकरणेन, एवं कारणाऽनुमतिभ्यामपि प्रत्येकं षट् षट् सहस्राणि, सर्वमेलने जातान्यष्टादश सहस्राणि ।।१३९ ।। देव० : अक्षरार्थः सुगमः, नवरं शील्यतेऽभ्यस्यते विधिप्रतिषेधरूपतयेति शीलं चारित्रम्, तस्याऽङ्गान्यंशास्तत्समुदायरूपत्वात्तस्य तेषां सहस्राण्यष्टादश, कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादश सहस्राणि ? उच्यते - जोगे करणे सण्णा इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ती ।। [स्तवपरिज्ञा-५४] व्याख्या-योगः करणकारणानुमतिरूपस्त्रिधा, तस्मिन् विषयभूते करणं मनोवाक्कायरूपं त्रिधा, तत्र संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति तत्र संज्ञा आहारभयमैथुनपरिग्रहस्वरूपाश्चतस्रः, तास्विन्द्रियाणि श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानि पञ्च, तेषु भूमिरादिर्यस्य गणस्य भूम्यादिः, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाजीवरूपो दशपदः, तत्र श्रमणधर्मः क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मरूपो दशविधः । तस्मिंश्च शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिस्तथाहि - न हन्ति मनसाऽऽहारसंज्ञासंवृतः श्रोत्रेन्द्रियसंवरणः पृथिवीजीवान् क्षान्तिसम्पन्न इत्येकं शीलाङ्गम्, एवं मार्दवादिपदयोगेनापि पृथिवीकायाभिलापेन दश शीलाङ्गविकल्पाः स्युः । एवमप्कायाद्यभिलापैरपि दशदशमीलितं जातं शतम्, एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं प्रत्येकं चक्षुरादिभिरपि, जातानि पञ्च शतानि, एतान्याहारपदेनामुच्यमानेन लब्धानि, एवं भयादिसंज्ञाक्रान्ताभिरपि जाते द्वे सहस्रे, एतावच्च मनसा लब्धम्, एवं वाक्कायाभ्यामपि, जातानि षट् सहस्राणि, एतानि स्वयं करणेन, एवं कारणानुमतिभ्यामपि, प्रत्येकं षट् षट् सहस्राणि, सर्वमीलने जातान्यष्टादशसहस्राणि । ननु चैकयोग एवाऽष्टादशसहस्राणि स्युः यदा तु द्वयादिसंयोगजन्या इह क्षिप्यन्ते भेदास्तदा बहवोऽपि स्युस्तथाहि -
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy