________________
४-साधुतत्त्वम् गा - १३९
षट्कायप्रमर्दनः पृथिव्याद्यारम्भकः सन् गृहं गेहं करोति विदधाति देवादिव्याजेन । तथा प्रत्यक्षं च साक्षादेवाविध्वस्तानित्यर्थः, जलगतांस्तोयाश्रितान् प्राणिनोऽप्कायिकानित्यर्थः यः पुमान् पिबत्युपजीवत्याकुट्टिकयैव । कथं न कथञ्चित् न्विति वितर्के, स इत्यसौ साधुस्तात्त्विकयतिः । गाथार्थः ।।४२।।
1
* पञ्चाशके १७/५१*
-
एवं चरमसाधूनां चरणं व्यवस्थाप्यातिप्रसङ्गवारणायाह
एवं च संकिलिट्ठा माइट्ठाणंमि णिच्चतल्लिच्छा । आजीवियभयगत्था मूढा णो साहुणो णेया ।।
एवं चोक्तनीत्या संज्वलनव्यतिरिक्तकषायोदये न श्रमणत्वमित्येवं लक्षणया, संक्लिष्टाः संक्लिष्टचित्ताः कषायान्तरोदयात्, मातृस्थाने मायायां नित्यं तल्लिप्साः सदैव तत्पराः, पररञ्जनपरायणत्वात्। आजीवनमाजीविका निर्वाहस्तदसंभावनया यद्भयं भीतिस्तदाजीविकाभयं तेन ग्रस्ता अभिभूता ये ते तथा, गृहस्थैर्विज्ञातनिर्गुणत्वा धनादिविरहिता वा कथं निर्वक्ष्याम इत्यभिप्रायवन्त इत्यर्थः । मूढा मुग्धाः, परलोकसाधनवैमुख्येनेहलोकप्रतिबद्धत्वात्, नो नैव साधवो ज्ञेया ज्ञातव्याः, इति गाथार्थः ।। ५१ ।।
चक्रे० : साध्वसाधुस्वरूपमुक्त्वा पुनः साधुत्वं वक्तुमुपदेशमाहुः
देव० : साध्वसाधुस्वरूपमभिहितमधुना पुनः साधुतत्त्वं प्रतिपादयन्नुपदेशमाह - सीलंगाण सहस्सा अट्ठारस जे जिणेहिं पत्रत्ता |
जो ते धरेइ सम्मं गुरुबुद्धी तम्मि कायव्वा । । १३९ ।।
१८३
,
चक्रे० : अक्षरार्थः सुगमः, नवरं शील्यतेऽभ्यस्यते विधिनिषेधरूपतयेति शीलं चारित्रम्, तस्याऽङ्गान्यंशास्तेषां सहस्राण्यष्टादश, तन्निष्पत्तिश्च
जोगे करणे सन्ना इंदिय भोमाइ समणधम्मे य ।
सीलिंगसहस्साणं अट्ठारसगस्स निप्फत्ती ।। [स्तवपरिज्ञा - ५४ ]
योगः करणकारणानुमतिरूपस्त्रिधा करणं मनोवाक्कायरूपं त्रिधा, संज्ञा आहारभयमैथुनपरिग्रहरूपाश्चतस्रः, इन्द्रियाणि श्रोत्रचक्षुर्प्राणरसनस्पर्शनरूपाणि पञ्च, भूम्यादिः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेद्रियाऽजीवरूपो दशपदः, श्रमणधर्मः क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाऽऽकिञ्चन्यब्रह्मचर्यरूपो दशविधः, तैः शीलाङ्गसहस्राष्टादशकस्य निष्पत्तिः,