SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : उद्दिष्टमुद्देशः साध्वपेक्षा, तेन कृतमुद्दिष्टकृतमाधाकर्मादि, तद् भुङ्क्तेऽभ्यवहरत्याकुट्टिकया, तथा षट्कायमर्दनो यत्र क्वचन पृथिव्याद्युपमर्दको गृहं करोति, सम्भवत्येवैषणीयालये मूर्छया वसतिं भाटकगृहं वा देवादिव्याजतो वा तथा प्रत्यक्षं चोपलभ्यमान एव जलगतांस्तोयाश्रितानप्कायिकादीन् यः पिबत्युपजीवत्याकुट्टिकयैव, कथं नु स साधुव भावयतिरिति । १८२ तथा ये केचन बहुश्रुता अपि संक्लिष्टचित्तास्तीव्ररागद्वेषोपहतचेतसो गुणेष्वपि मत्सरिणः क्वचिद्दोषेऽप्यनुरागिणः, मातृस्थाने बहिस्तत्तत्क्रियानेपथ्यभाषणादिके परवञ्चने नित्यं सर्वकालं तस्मिन्नेव परवञ्चने लिप्सवो बद्धाभिसन्धयः, आजीविकाभयग्रस्ता वृत्तिव्यवच्छेदभीरवः, ह्रस्वत्वं प्राकृतत्वात्। अत एव मूढाः प्रबलमोहवशवर्त्तिनो नो नैव साधवो भवन्तीति गाथाद्वयार्थः ।।१३७, १३८ ।। * दशवैकालिकनिर्युक्तौ - ३५७ * उद्दिट्ठकथं भुंजइ छक्कायपमद्दओ घरं कुणइ । पचक्खं च जलगए जो पियइ कह नु सो भिक्खू ? ।। उद्दिश्य कृतं भुङ्क्त इत्योद्देशिकमित्यर्थः, षट्कायप्रमर्दको यत्र क्वचन पृथिव्याद्युपमर्द्दकः गृहं करोति, सम्भवत्येवैषणीयालये मूर्च्छया वसतिं भाटकगृहं वा, तथा प्रत्यक्षं चोपलभ्यमान एव जलगतानप्कायादीन् यः पिबति तत्त्वतो विनाऽऽलम्बनेन, कथं न्वसौ भिक्षुः नैव भावभिक्षुरिति गाथार्थः । । ३५७ ।। * पञ्चवस्तौ- १२०२, स्तवपरिज्ञायाम् - ९३ * उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पचक्खं च जलगए जो पिअइ कहण्णु सो साहू ? ।। उद्दिश्य कृतं भुङ्क्ते आकुट्टिकया, षट्कायप्रमर्द्दनो निरपेक्षतया गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिबत्याकुट्टिकयैव, कथं न्वसौ साधुर्भवति ? नैवेति गाथार्थः ।।१२०२।। * पञ्चाशके-१४/४२* 'यः साधुर्गुणरहित' इत्युक्तमथ तमेव दर्शयन्नाह - उद्दिट्ठकडं भुंजति छक्कायपमद्दणो घरं कुणति । पचक्खं च जलगते जो पियइ कह णु सो साहू ।। उद्दिष्टमुद्देशः साध्वपेक्षा तेन कृतमुद्दिष्टकृतमाधाकर्मादि तद्भुङ्क्ते भक्षयत्याकुट्टिकया, तथा
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy