________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
वासासु विसेसेणं अण्णं कालं तु गम्मए तत्थ । पाणा सीयलकुंथाइया य तो गहण वासासु ।। तथा स्वयमेव स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनात्मिका तृतीया, प्रव्राजकाध्यापकरत्नाधिकप्रभृतीनामुपधिवहनविश्रामणाभ्युत्थानदण्डकोपादानादिरूपा चतुर्थी, तदेवं दर्शिता प्रत्येकं चतुर्विधाऽष्टापि
१९२
गणिसम्पदः ।
अथ चतुर्द्धा विनयप्रतिपत्तिरुच्यते तत्रेत्थं विनयश्चतुर्धा - आचारविनयः श्रुतविनयो विक्षेपणाविनयो दोषनिर्घातनाविनयश्च ।
तत्राचारविनयः पुनरपि चतुर्धा, तद्यथा-संयमसामाचारी तपः सामाचारी गणसामाचारी एकाकिविहारसामाचारी च १ - तत्र संयमं स्वयमाचरति परं च ग्राहयति तत्र च सीदन्तं स्थिरीकरोति तदुद्यन्तं चोपबृंहतीति संयमसामाचारी, २- पाक्षिकादिषु तपःकर्म्म स्वयं करोति परं च कारयति भिक्षाचर्या स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्त इति तपः सामाचारी, ३-प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमभ्युद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी, ४- एकाकिविहारप्रतिमां स्वयं प्रतिपद्यते परं च ग्राहयतीत्येकाकिविहारसामाचारी ।
श्रुतविनयोऽपि चतुर्द्धा - १- सूत्रवाचनां ददाति २-अर्थं व्याख्यानयति, ३- हितं वाचयति हितवाचना तदैव भवति यदा सूत्रमर्थस्तदुभयं वा परिणामिकादिगुणोपेतं शिष्यं पर्यालोच्य यद्यस्य योग्यं तत्तस्यैव वाचयति, ४-सूत्रमर्थं वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुञ्चति ।
विक्षेपणाविनयश्चतुर्द्धा, १ - तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वधर्मं ग्राहयति, २- सम्यगृष्टिं तु गृहस्थं गार्हस्थ्याद्विक्षिप्य प्रव्राजयति, ३ - सम्यक्त्वाच्चारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव स्थापयति स्वयं चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्त्तते, ४- अनेषणीयपरिभोगादित्यागेनैषणीयपरिभोगादिस्वीकारेणेत्यर्थः ।
दोषनिर्घातनाविनयोऽपि चतुर्द्धा तद्यथा - १ - कृद्धस्य देशनादिभिः क्रोधनिर्घातना, २- कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्त्तनम्, ३- भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्त्तनम्, ४-स्वयं क्रोधदोषकाङ्क्षारहितस्य सुप्रणिहितस्य प्रवर्त्तनम्, तदेवमेषा कर्मविनयनाद्विनयप्रवृत्तिश्चतुर्धा । तदेवमेतेऽपि सर्वे षट्त्रिंशद्गुणा गुरोर्भवन्तीति गाथार्थः ।। ३३४ ।।
* गुरुगुणषट्त्रिंशत्षट्त्रिंशिकायाम्-३७ *
अथ षट्त्रिंशत्तमीं षट्त्रिंशिकामाह -
गणिसंपयट्ठचउविह बत्तीसं तेसु निमाउत्तो । चउविहविणयपवित्तो छत्तीसगुणो गुरू जयउ ।।