________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
कल्पनीयमेव ग्राह्यम्, तथैवं - यद्वस्त्रं न तदर्थं व्रतिनिमित्तं क्रीतम्, यच्च नैव व्रतिनिमित्तं 'वयं 'ति अन्तर्भूतण्यर्थत्वात् वायितम्, यच्च नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति भावः एवंविधं वस्त्रम्, तथाऽभ्याहृतमपमित्यकं च त्यक्त्वा शेषं साधोः कल्पत इति, तत्राऽभ्याहतं द्वेधा - परग्रामाभ्याहतं स्वग्रामाभ्याहतं च परग्रामाभ्याहतं यदन्यस्माद् ग्रामादेः साधुनिमित्तमानीतम्, स्वग्रामाभ्याहतं हट्टादिभ्यो यद् व्रतिभिरदृष्टं यतिनिमित्तमेव गृहे समानीतम्, व्रतिदृष्टं तु हट्टादिभ्योऽप्यानीतं गृहादिषु यतीनां ग्रहीतुं कल्पत इति, तथाऽपमित्यकं - उद्धारकेणान्यस्माद् गृहीत्वा यद्ददाति, दोषाश्चात्रापि पिण्डवद्वाच्या इति, अपरं च - अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यम्, तत्र मूलतो यत्यर्थं वायनादिकं वस्त्रंस्याविशोधिकोटिः प्रक्षालनादिकं च यत्यर्थं क्रियमाणं विशोधिकोटिः, इदं च वस्त्रं यदा कल्पनीयमित्यवसितं भवति तदा द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयम् मा तत्र गृहिणां मणिर्वा सुवर्णं वाऽन्यद्वा रूपकादिद्रव्यं निबद्धं स्यात्, ततः सोऽपि भण्यते - निरीक्षस्वैतद्वस्त्रं सर्वतः, एवं च यदि तेन मण्यादि दृष्टं ततो गृहीतम्, अथ न दृष्टं ततः साधुरेव दर्शयत्येनमपनयेति, आह- गृहिणः कथिते कथमधिकरणं न भवति ? उच्यते कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति । । ८४९ । ।
१८०
चक्रे० : अथ पात्रशुद्धिमाहुः
देव० : अथ पात्रशुद्धिमाह
तुंबय दारुय-मट्टीपत्तं कम्माइदोसपरिमुक्कं ।
उत्तम - मज्झ- जहन्नं जईण भणियं जिणवरेहिं । । १३५ । ।
-
चक्रे० : सुगमा ।। १३५ ।।
देव० : तुम्बकमलाबुः, दारुकं काष्ठम्, मृत्तिका पृथ्वीविशेष एतेषां द्वन्द्वः । तासां पात्रं भिक्षाभाजनम्, किंविशिष्टम् ? कर्मादिदोषपरिमुक्तम्, सूचकत्वात्सूत्रस्य, आधाकर्मादिदूषणजालविकलम्, यतीनां साधूनां भणितं जिनवरैस्तीर्थकृद्भिः । एतदैकैकं किंविशिष्टमित्याहउत्तममध्यमजघन्यम्, तत्रोत्तमं पतद्ग्रहो मध्यमं मात्रं जघन्यमोलङ्ककाद्यन्ये पुनस्तुम्बकमयादीनां यथासङ्ख्यमुत्तमादि विभागं कल्पयन्ति पुनरेकैकं यथाकृताल्पपरिकर्मसपरिकर्मरूपतया त्रिधाऽवसेयम्, इह च पूर्वपूर्वस्यालाभ उत्तरोत्तरस्य ग्रहणं विधेयम् । मूलोत्तरगुणविभागश्च तुम्बकमाश्रित्येत्थं - 'मुहुकरणं मूलगुणा पाए निक्कोरणं तु इयरेउ 'त्ति गाथादलं सुगममेव दारुमयादिषु तु स्वयमभ्यूह्यः, तच्च गृह्णन्नमुं विधिं प्रयुङ्क्ते -
-
१. मट्टीयपत्तं K, मट्टियपत्तं A, Z २ मुहकरणं A, C