________________
४-साधुतत्त्वम् गा-१३४
१७९
निबद्धं स्यात्, ततः सोऽपि गृहस्थो भण्यते निरीक्षस्वैतद्वस्त्रं सर्वतः, एवं च तेन यदि मण्यादि दृष्टं ततो लष्टम्, अथ न पश्यति ततः साधुरेव दर्शयत्येनमपनयेति आह-गृहिणः कथिते कथमधिकरणं न भवति ? उच्यते- कथिते स्तोकतर एव दोषः, अकथिते तूड्डाहादिर्महान् दोष इति तथा -
नवभागकप्पणाए पढमं वत्थं करित्तु जोयंति । नाऊण फलविसेसं गिण्हंती अहव वज्जंति ।। चत्तारि देवया भागा दुवे भागा य माणुसा ।। आसुरा य दुवे भागा मज्जे वत्थस्स रक्खसो ।।
[बृ. कल्पभा० २८३३, नि.भा० ५०८८] अंजणखंजणकद्दमलित्ते मूसगभक्खियं अग्गिविदड्डे । तुण्णिय कुट्टिय पज्जवलीढे होइ विवागो असुहोऽसुहो वा ।।
[बृ.कल्पभा० २८३२, नि.भा. ५०८७] देवेसु उत्तमो लाभो माणुसेसु य मज्झिमो ।
आसुरेसु य गेलन्नं मरणं जाण रक्खसे ।। [बृ. कल्पभा० २८३४, नि.भा० ५०८९] इति सप्रसङ्ग इति गाथार्थः । ।१३४ ।।
___ * प्रवचनसारोद्धारे-८४९ * इदानीं 'वत्थग्गहणविहाणंति पञ्चविंशत्युत्तरं शततमं द्वारमाह -
जन तयट्ठा कीयं नेव वुयं जं न गहियमन्नेसिं ।
आहडपामिचं चिय कप्पए साहुणो वत्थं ।। इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्रैकेन्द्रियावयवनिष्पन्नं कार्पासिकादि, विकलेन्द्रियावयवनिष्पन्नं कौशेयकाद्येतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नमौर्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिकर्माणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्त्राणि तानि बहुपरिकर्मवस्त्रापेक्षया स्तोकसंयमव्याघातकारीणीत्यतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात्, ततो गृह्णद्भिः पूर्वं यथाकृतानि ग्राह्याणि तदलाभे चाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्राणि ग्राह्याणीति, एतच्च सर्वमपि वस्त्रं गच्छवासिभिः