________________
१७८
रणम् - सम्यक्त्वप्रकरणम
चक्रे० : अथ वस्त्रशुद्धिमाहुः - देव० : अथ क्रमप्राप्तां वस्त्रशुद्धिमाह -
जन्न तयट्ठा कीयं नेय वुयं नेय गहियमन्त्रेणं ।
आहडपामिछं वज्जिऊण तं कप्पए वत्थं ।।१३४ ।। चक्रे० : यन्न तदर्थं प्रस्तावात् साधुनिमित्तं क्रीतं नैव व्यूतम्, नैवान्येषां पार्वाद् वस्त्राऽन्तरेण परावृत्य बलादाऽऽच्छिद्य वा गृहीतं तद्वस्त्रं कल्पते, आहतं प्रामित्यं वर्जयित्वा । इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवं ज्ञेयाः, यत्तु क्रीतादिदोषभणनमात्रं तद्वाहुल्येनाऽमीषामेव सम्भवात् ।।१३४।।
देव० : यन्न तदर्थं प्रस्तावात्साधुनिमित्तं क्रीतं मूल्येन गृहीतम्, नैव व्यूतमातानवितानादितन्तुक्रियया निर्वर्तितम् । एकारः प्राकृतप्रभवो न च गृहीतमन्येन वस्त्वन्तरेण परिवृत्येत्यर्थः, पञ्चम्यर्थे वा तृतीया, ततश्चान्यस्माद् भृत्यादेराच्छिद्येत्यर्थः, साध्वर्थमितीहापि गम्यं, तद्वस्त्रं कल्पत इति योगः । प्रस्तावाद्यतीनां किं कृत्वा ? वर्जयित्वा, किम् ? आहतमपमित्यं च विशेषणोभयपदकर्मधारयश्चात्र, इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवमवसेयाः, यत्तु क्रीतादिदोषभणनं तद्वाहुल्येनामीषां सम्भवात् ।
इह मूलोत्तरगुणविभागश्चैवम्-तणविणणसंजयट्ठा मूलगुणा उत्तरा य पाणसयणत्ति । पूर्वार्द्धम्, अस्य व्याख्या - तननवितननादयो मूलगुणा अविशोधिकोटिः, पानसज्जानादयश्चोत्तरगुणा विशोधिकोटिरिति । अत्र तानवितानयोरसावद्यत्वादुत्तरगुणत्वं पानसज्जनयोश्च सावद्यत्वान्मूलगुणत्वं युक्तमिति परः । आचार्य आह -
अत्तट्ठियतंतूहिं समण? तओ अपाइयतुओ य । किं सो न होइ कम्मं फासूणवि पज्जिओ जो उ ।। फासूणवित्ति स्वार्थविहितेनापीत्यर्थः । जइपज्जणं तु कम्मं इयरमकम्मं सकप्पऊ धोउ ।
अह धोउवि न कप्पइ तणणं विणणं च तो कम्मत्ति ।। [ ] इत्थं मूलोत्तरगुणशुद्धमौर्णिककार्पासिकादिभेदभिन्नं यद्वस्त्रं दायकेनोपढौकितं भवति, तद् द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयम्, मा तत्र गृहिणां मणिर्वा सुवर्णं वान्यद्वा रूपकादिद्रव्यं
१. गहियमन्नेसिं 'चक्रे' टीकानुसारेण, गहियमन्नेण T.C.P.K