________________
४-साधुतत्त्वम् गा-१३३
१७७
लज्जानाशोऽसकृत्परस्परदर्शनेन, प्रीतिवृद्धिश्च नित्यमालापविश्रम्भकथादिसम्भवात्, साधुतपोवनवास इति लोके गर्दा, निवारणं तद्र्व्यान्यद्रव्याणाम्, तीर्थहानिर्लोकाप्रवृत्तितः । इति पशुपण्डकसहितायामपि चित्तक्षोभाभिघातादयः, अभ्यधायि च -
पसुपंडगेसु वि इहं मोहानलदीवियाण जं होइ ।
पायमसुहा पवित्ती पुव्वभवऽब्भासओ तह य ।। [पञ्च० ७२८] आज्ञादयश्च दोषाः सर्वत्रापि समा एव, तस्मादुक्तदोषवर्जितैव वसतिरासेव्या, यदाह -
तम्हा जहत्तदोसेहिं वज्जिअं निम्ममो निरासंसो ।
वसहिं सेविज्ज जई विवज्जए आणमाईणि ।। [पञ्च० ७२९] इति गाथार्थः ।।१३३ ।।
* पञ्चवस्तौ-७०६ * इदानीं वसतिविधिमाह -
मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जिअं वसहिं ।
सेविज्ज सव्वकालं विवज्जए होंति दोसा उ ।। मूलगुणोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवजितां वसतिं सेवेत सर्वकालम्, विपर्ययेऽशुद्धस्त्र्यादिसंसक्तायां वसतौ भवन्ति दोषा इति गाथार्थः ।।७०६ ।।
* प्रवचनसारोद्धारे-८७४ * तथा चाह
मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं ।
सेविज्ज सव्वकालं विवज्जए हुति दोसा उ ।। 'मूलुत्ते'त्यादि, मूलोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसतिं सेवेत सर्वकालम, विपर्यये-अशुद्धायां स्त्र्यादिसंसक्तायां च वसतौ भवन्ति दोषा इति, एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, यत्पुनरिह सूत्रे चतुःशालाद्यपेक्षया मूलोत्तरगुणविभागः साक्षान्नोक्तस्तत्रेदं कारणं-यथा विहरतां साधूनां श्रुताध्ययनादिव्याक्षेपपरिहारार्थं प्रायो ग्राामादिष्वेव वासः सम्भवति, तत्र च वसतिः पृष्ठवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति, उक्तं च
चाउस्सालाईए विन्नेओ एवमेव उ विभागो । इह मूलाइगुणाणं सक्खा पुण सुण न जं भणिओ ।। विहरंताणं पायं समत्तकज्जाण जेण गामेसु । वासो तेसु य वसही पट्ठाइजुया अओ तासि ।।८७४ ।।