________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
इमेऽष्टौ दोषाः, या तु समस्तोक्तदोषवर्जिता स्वार्थं जिनबिम्बप्रतिष्ठार्थं वा कारिता साऽल्पक्रिया शुद्धेत्यर्थः । अयं तु दोषपद्धतिपठितोऽपि गुणोऽल्पशब्दस्याभाववाचकत्वादिति ।
१७६
तथा स्त्रीवर्जिता यत्र स्त्रियो मिथः कथादिभिः स्थानं न विदधति, यस्यां च स्थितैः स्त्रीणां चङ्कमितादिविकृतरूपाणि नावलोक्यन्ते, ता अपि साधून् विश्रब्धस्थानासनादि कुर्वाणान्न प्रेक्षन्ते, गीत- हसित-भूषणादिरवश्च स्त्रीणां न श्रूयते ता अपि साधुमधुरस्वाध्यायध्वनिं नाकर्णयन्तीत्यत्र
गाथा
थीवज्जियं वियाणह इत्थीणं जत्थ ठाणरूवाई |
सद्दा य न सुव्वंती तावि य तेसिं न पेच्छंति ।। [पञ्च० ७२०] ठाणं चिट्ठति जहिं मिहो कहाईहिं नवरमित्थीओ
ठाणे नियमारूवं सिय सद्दो जेण तो वज्जे ।। [पञ्च. ७२१]
विप्रकृष्टे कदाचिच्छब्दो न स्यादपीति स्यादित्युक्तम् - चंकम्मियं ठिइ मोट्टियं च विप्पेक्खियं च सविलासं । सिंगारे य बहुविहे दठ्ठे भुत्तेयरे दोसा ।। [ पञ्च० ७२३] मोट्टियंति किलकिञ्चितं रमितमित्यर्थः । भुत्तेयरत्ति भुक्ताभुक्तभोगयोर्दोषाः स्मृतिकुतूहलादयः । जल्लमलपंकियाणवि लावण्णसिरी उ जहसि देहाणं । सामण्णेऽवि सुरूवा सयगुणिया आसि गिहवासे ।।
गीयाणि य पढियाणि य हसियाणि य मंजुले य उल्लावे । भूसणस राहस्सिए य सोऊण जे दोसा ।।
गंभीरमहुरफुडविसयगाहगो सुस्सरो सरो जेसिं ।
सज्झायस्स मणहरो गीयस्स णु केरिसो होज्ज ? ।। [ पञ्च० ७२४, २५, २६]
तथा पशुवर्जिता गोगर्दभीवडवादिपशुस्त्रीतत्पुरुषरहिता, तथा पण्डकवर्जिता नपुंसकरहिता विपर्यये दोषा दूषणानि, ते च व्यक्ता एव । तत्र मूलोत्तरगुणाऽशुद्धायामाधाकर्मादयः, स्त्रीसहितायां तु ब्रह्मव्रतागुप्त्यादयः । यदाह
भवयस्स अगुत्ती लज्जाणासो य पीइवुड्ढी य ।
साहु तवो वणवासो निवारणं तित्थहाणी य ।। [पञ्च. ७२२]
१. ध्वनिर्न श्रूयते A