________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : पूर्वार्द्धं सुगमम्, नवरं ज्ञात्वा निशीथादिग्रन्थेभ्यः, लङ्घयित्वा विगाह्याल्पबहुगुणत्वेन तुलयित्वेति यावत्, उक्तविधिमुत्सारककल्पाभिहितन्यायं बहुगुणयुक्तं प्रभूतगुणसम्पन्नं कुर्याः कृत्यमिति गम्यते, अनेन समयोचितं यद्गीतार्थः करोति तत्प्रमाणमित्यावेदयति, यदुक्तम् - अवलंबिऊण कज्जं जंकिंचि समायरंति गीयत्था ।
१७४
थोवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [ पञ्चवस्तु-२७९] इति गाथार्थः । । १३२ ।।
चक्रे० : उक्तः पिण्डविचारः, सम्प्रति शय्याशुद्धिमाहुः
देव० : उक्तः सप्रसङ्गः पिण्डविचारः, सम्प्रति शय्याशुद्धिमा ह
मूलोत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज्ज सव्वकालं विवज्जए हुंति दोसा उ । । १३३ ।।
चक्रे० : सुगमा, नवरं 'मूलत्तरगुणसुद्धं'ति यस्यां पृष्ठवंशमूलस्तम्भादयः साध्वर्थं न क्रियन्ते, सा मुलगुणशुद्धा यस्यां छादनलेपनादीनि न साध्वर्थानि सा उत्तरगुणशुद्धा ।। १३३ ।। देव० : गुणशब्दस्य प्रत्येकमभिसम्बधान्मूलगुणोत्तरगुणशुद्धां स्त्रीपशुपण्डकविवर्जितां वसतिं सर्वकालं सेवेत, विपर्यये पुनर्भवन्ति दोषा इति सङ्क्षेपार्थः ।
पट्ठीवंसो दो धारणाउ चत्तारि मूलवेलीओ ।
मूलगुणे हुववेया एसा उ अहागडा वसही ।। [पञ्च० ७०७ ]
तत्र पृष्ठवंशो मोभ इति लोके यः प्रतीतः, द्वे धारण्यौ यत् प्रतिष्ठितौ असावेव, चतस्रो मूलवेलयो याश्चतुर्षु कोणेषु निधीयन्ते, एते सप्तापि मूलगुणास्तैश्च साधुमाधाय कृतैरुपेता युक्ता एषा, तुशब्द एवकारार्थः, आधाय कृता आधाकर्मिक्येव वसतिरिति । उत्तरगुणाश्च द्विविधा मूलोत्तरगुणा उत्तरोत्तरगुणाश्च, तत्र मूलोत्तरगुणाः
वंसग-कडणु-क्वंवण-च्छायण - लेवण - दुवार - भूमीए ।
सपरिकम्मा वसही एसा मूलोत्तरगुणेसु ।। [ पञ्च० ७०८ ]
अत्र वृद्धसम्प्रदायः वंसगत्ति दण्डकाः, कडणंति कटादिभिः कुट्यकरणम्, उक्कंवणंति दण्डकोपर्युडयणमिति यत्प्रतीतम्, च्छायणंति दर्भादिभिराच्छादनम्, लेवणंति विक्खल्लेण
१. अत एवोक्तमागमे
जावज्जीवं गुरुणो सुद्धमसुद्धेण होइ नायव्वं । वसहे बारसवासा अट्ठारस भिक्खुणो मासा ।। A
-