________________
१७३
४-साधुतत्त्वम् गा-१३१, १३२
__ १७३ चक्रे० : अथापवादः किंस्वरूपः ? इत्याहुः - देव० : अथापवादः किंस्वरूपो भवतीत्याह -
पुढवाइसु आसेवा उपने कारणंमि जयणाए ।
मिगरहियस्स ठियस्सा अववाओ होइ नायव्यो।।१३१।। चक्रे० : पृथ्व्यादिषु षष्ठीस्थाने सप्तमी, ततः पृथ्वीकायादीनामुत्पन्ने कारणे ग्लानत्वादौ यतनया गुरुदोषत्यागेनाऽल्पदोषाऽऽदानरूपयाऽऽसेवा परिभोगोऽपवादो भवति ज्ञातव्यः । कस्य ? स्थितस्य मूलोत्तरगुणेषु वर्तमानस्य साधोरिति गम्यम्, किंविशिष्टस्य ? मृगा इव मृगा अज्ञानसाम्यादगीतार्थास्तै रहितस्य, ते हि तदासेवां दृष्ट्वाऽतिप्रसङ्गं धर्मभ्रंशं वा कुर्वन्तीति ।।१३१।।
देव० : पृथिव्यादिषु षष्ठीसप्तम्योरर्थं प्रत्यभेदात् पृथिव्यप्तेजोवायुवनस्पतित्रसादीनामुत्पन्ने कारणे भणितस्वरूपे यतनया गुरुदोषत्यागेन लघुदोषाश्रयणरूपयाऽऽसेवा परिभोगोऽपवादो भवतीति ज्ञातव्य इति सण्टङ्कः । कस्य सा चाऽऽसेवा स्थितस्य मूलोत्तरगुणेषु दशविधकल्पे वा वर्तमानस्य साधोरिति गम्यते, किंविशिष्टस्य मृगा अज्ञा अगीतार्था इत्यर्थस्तै रहितस्य, ते हि तदासेवामवलोक्यातिपरिणामकत्वापरिणामकत्वाभ्यामतिप्रसङ्गं धर्मभ्रंशं वा लभेरनिति गाथार्थः ।।१३१।।
चक्रे० : अधुना बहुविषयोत्सर्गापवादपरिज्ञानतः कृत्योपदेशमाहुः - देव० : अधुना बहुविषयोत्सर्गापवादपरिज्ञानतः कृत्योपदेशमाह -
बहुवित्थरमुस्सग्गं बहुविहमववाय वित्थरं णाउं ।
लंघेऊणुत्तविहिं बहुगुणजुत्तं करेज्जाहि।।१३२।। चक्रे० : स्पष्टा, नवरं ज्ञात्वा निशीथादिग्रन्थेभ्यः, अनया च गाथया समयोचितं यद्गीतार्थः करोति तत् प्रमाणमित्यावेदितम्, उक्तं च -
अवलंबिऊण कज्जं जंकिंचि समायरंति गीयत्था । थोवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [धर्मरत्नप्र. ८५] ।।१३२।।
१. प्रमाणमित्याह - 'उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो' वेदितं P.K