________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
देव० : नन्वाधाकर्मभोजिनः पूर्वमाज्ञाभङ्गः प्रतिपादितः, साम्प्रतं पुनर्यतनावतस्तदेवानुज्ञायत इति कथं न व्यभिचरतीत्याह
१७२
उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो । कारणजाए जाए अववाए ताणि कप्पंति । । १३० ।।
चक्रे० : स्पष्टा, नवरं कारणजाते ग्लानत्वादिकारणसमूहे । । १३० ।।
देव० : उत्सर्गः सामान्योक्तो विधिस्तेन निषिद्धानि निवारितानि यानि द्रव्याणि सचेतनाचेतनादीनि संस्तरे द्रव्यापदादिविरहे यतेः साधोस्तानि, किं कारणजाते द्रव्यापदादिहेतुसमूहे जाते समुत्पन्ने सत्यपवादे द्वितीयपदे कल्पन्ते संयमोपकाराय प्रभवन्ति । तदयमभिप्रायः - पूर्वसूत्राण्युत्सर्गविषयाण्येतत्पुनरपवादविषयमिति भिन्नविषयत्वान्न विरोध इति गाथार्थः।।१३०।।
* बृहत्कल्पभाष्ये-३३२७ *
अथ किं पुनरनयोः स्वस्थानम् ? इत्याह
-
उस्सग्गेण निसिद्धाइँ जाइँ दव्वाइँ संथरे मुणिणो ।
कारणजाते जाते सव्वाणि वि ताणि कप्पंति ।।
अववादट्ठाणे पत्ते
उत्सर्गेण संस्तरणमाश्रित्य यानि द्रव्याणि प्रलम्बादीनि मुनेः संयतस्य प्रतिषिद्धानि तान्येव कारणजाते विशुद्धालम्बनप्रकारे जाते समुत्पन्ने सति सर्वाण्यपि कल्पन्ते । । ३३२७ ।।
* निशीथसूत्रे - ५
- ५२४५ *
उस्सग्गेण णिसिद्धाणि जाणि दव्वाणि संथरे मुणिणो । कारणजाए जाते सव्वाणि वि ताणि कप्पंति ।।
जाणि संथरमाणस्य उस्सग्गेण णिसिद्धाणि ताणि चेव दव्वाणि अववायकारणजाते, 'जाय 'सद्दो प्रकारवाची बितिओ 'जाय' सद्दो उप्पण्णवाची, अन्यतमे कारणप्रकार उत्पन्न इत्यर्थः । जाणि उस्सग्गे पडिसिद्धाणि उप्पण्णे कारणे सव्वाणि वि ताणि कप्पंति ण दोसो ।।५२४५ ।।