________________
४-साधुतत्त्वम् गा-१२९
१७१
यतनयाऽनागाढप्रयोजने समस्तक्षेत्रे त्रिःपरिभ्रमणेन पूर्वपूर्वस्याऽलाभ उत्तरोत्तरमादेयम्, आगाढे तु सहसैवाधाकर्माऽपि ग्राह्यमिति भावः ।।१२९ । ।
देव० : प्रगता असवो येभ्यस्तानि प्रासुकानि, तान्यप्येषणीयान्याधाकर्मादिसमस्तदोषरहितानि, तैः प्रथमं तावदिति शेषः, तदलाभे प्रासुकाऽवभाषितैरवभाषितं समयसञ्जया याचितम्, एतदसम्पत्तौ च क्रीतैः, तदसम्भवेऽपि 'पूइए'त्ति वचनस्यातन्त्रत्वात् पूतिभिः, एवमुत्तरत्रापि, तदप्राप्तावपि मिश्रकैः, ततोऽप्याधाकर्मभिरिह चकारोऽनुक्तसमुच्चये, ततः सूत्रविधिकुशलेन याचनादोषमवधिं कृत्वा लघुतमलघुतरलघ्वादिदोषाश्रयणेन तावद्गवेषणीयं यावत्पूतिमिश्राधाकर्माणि, तैरन्नपानादिभिरातुरस्य शरीरसन्धारणा कार्येत्युपस्कारस्तत्रापि यतनया अनागाढप्रयोजने समस्तक्षेत्रे त्रिःपरिभ्रमणेन प्राच्यप्राच्यदोषदुष्टस्यालाभे उत्तरोत्तरदोषदुष्टस्य ग्रहणरूपया, आगाढे तु यथाकथञ्चित् सहसैव ग्राह्यमिति भाव इति गाथार्थः । ।१२९ । ।
* हितोपदेशप्रकरणे-१२७ * नन्वपवाददानविधिरयं भवद्भिः स्वमतिविकल्पित एव, किं वाऽसौ सिद्धान्ते क्वाऽप्यस्तीत्याशक्याह – 'जं भणियं' यद् यस्मादिदमागमे भणितम् -
फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं ।
पूईकम्मेण तहा आहाकम्मेण जयणाए ।। अनेन क्रमेणासंस्तरणे गीतार्थश्रमणोपासकः साधुजनं निर्वाहयति, तत्र प्रथमं तावत् प्रासुकैषणीयैराहारैरिति शुद्धो भङ्गः, तदलाभे प्रासुकावभासितैः सिद्धान्तभाषया याचितैरित्यर्थः । अयं पूर्वस्मात् सदोषः, याचितकालाभे तु क्रीतैर्मूल्यक्रीतैः, याचितकदोषात् क्रीतदोषोऽपि महान् । क्रीतैरपि निर्वाहमपश्यन् पूतिकर्म करोति, पूतिकर्मणाप्यनिर्वाह आधाकर्मणाऽपि यतनया निर्वाहं करोति । किं बहुना ? योऽल्पप्रायश्चित्तो दोषस्तं तमुररीकरोति, सोऽयमागमप्रणीतो विधिरिति । उक्तं च -
संथरणंमि असुद्धं दुण्हवि गिण्हतदितयाण हियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे ।। [निशीथभा. १६५०] ।।१२७ ।। चक्रे० : नन्वाधाकर्मभोगे प्रागाज्ञाभङ्गः प्रोक्तः, सम्प्रति तु स एवानुज्ञात इति विरुद्धमित्याहुः -
१. प्रासुक इव भाषितैः A