________________
१६८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
भुङ्क्ते तयोराराधकत्वमाह, तस्य द्रव्ययतेः सर्वे च भरतैरवतविदेहजास्ते जिनाश्च तेषामाज्ञा द्वादशाङ्गी तस्यां विमुखः प्रतिकूलस्तस्याराधना परलोकसाधकत्वं नास्तीति गाथार्थः । ।१२७ ।।
* पिण्डविशुद्धिप्रकरणे-१९ * अधुनाधाकर्मपरिभोगेनाऽऽज्ञाभङ्गस्य विपाकं दर्शयन्नाह -
भुंजइ आहाकम्मं सम्मं जो न य पडिक्कमति लुद्धो ।
सवजिणाणाविमुहस्स तस्स आराहणा नत्थि ।।। भुङ्क्तेऽभ्यवहरत्याधाकर्म पूर्वोक्तं यः साधुरिति प्रक्रमः, कीदृशः सनित्याह- 'लुद्धो' गृद्धोऽनेन ग्लानादिकारणेन यस्तद् गृह्णाति स आज्ञां न लङ्घयतीत्यावेदयति । भुक्त्वा च 'सम्मति सम्यगपुनरावृत्त्या भावशुद्धया वा यो न नैव, चः स्थाप्यः, प्रतिक्रामत्याधार्मिकपरिभोगात् प्रायश्चित्तग्रहणपूर्वकं व्यावर्त्तते । स्थापितचकाराद् गृहीत्वा तन करोतीति गृह्यते, स आज्ञाभङ्गदोषकारीति प्रक्रमः। तस्य फलमाहसर्वजिनानां समस्ततीर्थकराणामाज्ञोपदेशस्तस्या विमुखः पराङ्मुखो भ्रष्ट इति भावस्तस्य । तस्येति साधुसङ्कल्पिताहारभोजित्वादाज्ञाभङ्गकारिणो यतेराराधना सुगतिनिबन्धनसदनुष्ठाननिष्पादना, यद्वाऽऽराधना मरणकाले भाविनि पर्यन्तक्रिया साऽशुद्धाहारभोक्तृत्वेन संयमादिविघातकारित्वात् तस्य नरकादिकुगतिगमनसम्भवानास्ति न विद्यते । अथवाऽखण्डितसंयमानुष्ठानपरिपालनस्यान्ते पण्डितमरणेनैव सुगतिप्राप्तिकारकं श्रेयस्करमुपवर्ण्यते तञ्च तस्य न स्यात्, युज्यते चैतत् फलं परममहाराजतीर्थकराज्ञाभङ्गकारिणाम्। यत इहलोकेऽपि राजादेरप्याज्ञाभङ्गकारिणोऽनर्थपरम्परां प्राप्नुवन्तो दृश्यन्ते, किं पुनस्तीर्थकराज्ञाभङ्गकारिणांस्तामिति ।।१९।। चक्रे० : यद्येवम्, कथमागमे दुर्भिक्षादावाधाकर्माद्यनुज्ञातमित्याहुः - देव० : यद्येवं तर्हि कथमागमे दुर्भिक्षग्लानाद्यागाढप्रयोजन आधाकर्मादिग्रहणमनुज्ञातमित्याह -
संथरणम्मि असुद्धं दुण्ह वि गिण्हंतदितयाणऽहियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे ।।१२८ ।। चक्रे० : संस्तरणे प्रासुकैषणीयादिनैव निर्वाहे सत्यशुद्धमाधाकर्मादि, द्वयोरपि गृह्णद्ददतोः, अहितं संसारहेतुत्वात्, आतुरदृष्टान्तेन, यथाहि रोगिणे कदाचित् पथ्यमप्यपथ्यम्, कदाचित् त्वपथ्यमपि पथ्यं स्याद्देशकालाद्यपेक्षया, एवमसंस्तरणे दुर्भिक्षग्लानाद्यवस्थायां तदेवाशुद्धमपि हितम्, यदाह -
सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ।। [ओघनि. ४७]