________________
४-साधुतत्त्वम् गा-१२६, १२७
१६७
एतद्दोषविमुक्तोऽनन्तरोक्ताधाकर्मादिद्विचत्त्वारिंशद्दोषपरिशुद्धः पिण्डोऽशनादिको यतीनां श्रमणानां जिनेन श्रीसर्वज्ञभगवताऽनुज्ञातो निर्दिष्टः । अस्य परिशुद्धपिण्डस्य भोगोऽपि न केवलं ग्रहणमभ्यवहरणमपि संयोजनादिदोषरहितो वक्ष्यमाणसंयोजनाप्रमाणादिदोषविनिर्मुक्तः कारणतो वक्ष्यमाणवेदनावैयावृत्त्यादिप्रयोजनादनुज्ञात इति शेषः ।।८।।
चक्रे० : ननु गृहस्थेन भक्तिकृतमाधाकर्म गृह्णतस्त्रिधा शुद्धस्य साधोः को दोष इत्याहुः - देव० : ननु गृहस्थेन भक्तिविहितमाधाकर्म गृह्णतस्त्रिधा शुद्धस्य साधोः को दोष इत्याह -
जस्सट्ठा आहारो आरंभो तस्स होइ नियमेण ।
आरंभे पाणिवहो पाणिवहे होइ वयभंगो।।१२६ ।। चक्रे० : अक्षरार्थः स्पष्टो भावार्थस्त्वयम्, यद्यपि साधोः पचनादौ न व्यापारस्तथापि मदर्थमिदं निष्पन्नमिति जानतो निःशूकतया भुञ्जानस्याऽनुमतिसम्भवाद्दोषः ।।१२६ ।।
देव० : यस्य साधोरर्थाय निमित्तायाऽऽहारोऽशनादिः पच्यत इति शेषः, आरम्भः खण्डनपेषणादिसन्धुक्षणादिव्यापारस्तस्य भवति नियमेन, चस्य गम्यमानत्वादारम्भे च प्राणिवधः, प्राणिवधे च भवति व्रतभङ्गः । अयमर्थः-यद्यपि साधोः पचनादौ न व्यापारस्तथापि मम निमित्तं निष्पन्नमिदमिति जानतो निःशूकतया भुञ्जानस्य कथमिव त्रिकरणशुद्धिः स्यात् ? तत्परिभोगतस्तस्यानुमतत्वादिति गाथार्थः ।।१२६।।
चक्रे० : इत्थमुपदिष्टेऽप्याधाकर्मभोजी यस्तस्य महादोषमाहुः -
देव० : इत्थमुपदिष्टेऽपि यः क्लिष्टकर्मा आधाकर्म निःशूकतया भुङ्क्ते तस्यानाराधकत्वमाह -
भुंजइ आहाकम्मं सम्मं न य जो पडिक्कमइ लुद्धो ।
सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि।।१२७ ।। चक्रे० : भुङ्क्त आधाकर्म, सम्यग्भावशुद्ध्याऽऽलोचनापूर्वं न च यः प्रतिक्रामति न तद्भोजनान्निवर्त्तते लुब्धः, तस्य सर्वजिनाज्ञाविमुखस्याऽऽराधना परलोकसाधकत्वं नास्ति।।१२७ ।।
देव० : भुङ्क्तेऽभ्यवहरति यः साधुराधाकर्म वर्णितस्वरूपम्, सम्यग्भावशुद्धया न च नैव प्रतिक्रामति प्रायश्चित्तप्रतिपत्त्या तद्भोजनात् प्रतिनिवर्त्तते, किंविशिष्टः सन् ? लुब्धो रसनालम्पटोऽनेन यः कथञ्चित् सकृद् भुक्त्वापि सम्यक्प्रतिक्रामति, यश्चालुब्धो ग्लानादिकारणे
१. निःशङ्कतया K