________________
४-साधुतत्त्वम् गा-१२८
काहं अच्छित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं गणं च नीईइ व सारविस्सं सालंबसेवी समुवेइ मोक्खं ।। [प्रव.सारो० ७७९] न वि किंचि अणुनायं पडिसिद्धं वा वि जिणवरिंदेहिं ।
एसा तेसिं आणा कज्जे सच्चेण होयव्वं ।। [पञ्चवस्तु-२४०] इति गाथार्थः ।।१२८ ।।
देव० : संस्तरणे प्रासुकैषणीयाहारादिनैव निर्वाहे सत्यशुद्धमनेषणीयं गृह्यमाणं दीयमानं चेति गम्यते, द्वयोरपि, नैकस्य कस्यापि, ग्रहीतृदात्रोः साधुश्रावकयोः अहितमनर्थहेतुत्वादपथ्यं स्यादित्येष उत्सर्गः । अपवादतस्त्वातुरो रोगी तस्य दृष्टान्त उदाहरणं तेन, यथा हि रोगिणः कस्यामप्यवस्थायां पथ्यमपथ्यम्, कस्याञ्चित्तु पुनरपथ्यमपि पथ्यं स्यात्, तथा च भिषक्शास्त्रम्
उत्पद्येत हि सावस्था देशकालामयान् प्रति ।।
यस्यां कार्यमकार्यं स्यात् कर्मकार्यं तु वर्जयेत् ।। [ ] अनेन न्यायेन 'तं चेव'त्ति अशुद्धमपि हितमवस्थोचितत्वात् पथ्यम्, द्वयोरपीत्यत्रापि योगोऽसंस्तरणेऽनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो यद्यपीदमाधाकर्माज्ञाभङ्गाद्यनेकदोषकारणं वर्णितं तथापि -
सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ।। [जीवानुशासन-२०८] काहं अच्छित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईइ व सारविस्सं सालंबसेवी समुवेइ मोक्खं ।। सालंबणो पडतो अप्पाणं दुग्गमे वि धारेइ । इय सालंबणसेवी धारेइ जई असढभावं ।। [पुष्पमाला-२३७, ३८] अप्पेण बहुमेसेज्जा एवं पंडियलक्खणं । सव्वासु पडिसेवासु एवं अट्ठपयं विऊ ।। नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं ।
एसा तेसिं आणा कज्जे सच्चेण होयव्वं ।। [पञ्चवस्तु-२४०] इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभाकाङ्क्षया गृह्यमाणं दीयमानं च न दोषायेति गाथार्थः । ।१२८ ।।