________________
१६४
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
७-सचित्तमिश्रमुन्मिश्रम्। ८-न सम्यगचित्तीभूतमपरिणतम् । ९-लिप्तं दध्यादिलेपभाक्, किलैतदपि कारणं विना न ग्राह्यम्, यदाह -
घित्तव्वमलेवकडं लेवकडेमाहु पच्छकम्माई । करमात्रकक्षालनादिकम्, अलेपवतो गुणमाह -
___ न य रसगेहिं पसंगो न य भुत्ते बंभपीडा य ।। [ ] १०-घृतादि छर्दयन् यद्ददाति तच्छर्दितम्। एषणादोषा गृहिसाधुप्रभवा एते दश भवन्ति । सर्वमेलने च द्वाचत्वारिंशदिति।।१२४ ।।
देव० : १-आधाकर्मादिशङ्काकलुषितो यदनाद्यादत्ते तत् शङ्कितम्, यं च दोषं शङ्कते तमापद्यते।
२-प्रक्षितं पृथिव्यादिना सचेतनेन सुराशुच्यादिना वाऽचेतनेनापि गर्हितेनारूषितं करादि, तेन दीयमानं भक्ताद्यपि तथोच्यते। ३-निक्षिप्तं पृथिव्युदकतेजोवायुवनस्पतिषु त्रसेषु च यदचित्तमपि स्थापितम्। ४-पिहितं स्थगितं सचेतनफलादिना। ५-दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेनैव भाजनेन ददतः संहतम् ।
६-बालवृद्धपण्डकवेपमानज्वरितान्धाव्यक्तमत्तोन्मत्तकरचरणनिगडितपादुकारूढकण्डकपेषकभर्जककर्तकालोठकविङ्खकपिञ्जकदलकव्यालोडकभोजकषट्कायविराधका दातृत्वेन प्रतिषिद्धा यावत् स्त्री वेलामासवती गृहीतबाला बालवत्सा वा, एभ्योऽनादि ग्रहीतुं साधोर्न कल्पते।
७-देयद्रव्यं खण्डादि सचित्तेन कणादिना मिश्रं ददत उन्मिश्रम् । ८-देयद्रव्यं मिश्रमचित्तत्वेनापरिणमदपरिणतम्। ९-लिप्तं लेपवद्दध्यादि किलैतदपि कारणं विना न ग्राह्यम्, यदाह -
घित्तव्वमलेवकडं लेवकडेमाहु पच्छकम्माई । अलेपवतो गुणमाह -
न य रसगेहिं पसंगो न य भुत्ते बंभपीडा य। [ ] १. लिप्तं द्रव्यादिलेपवत् T,B,C