________________
४-साधुतत्त्वम् गा-१२४
१६३
पुट्विंपच्छासंथव विज्जा मंते य चुण्ण जोगे य ।
उप्पायणयाए दोसा सोलसमे मूलकम्मे य ।।। धयन्ति पिबन्ति तामिति धात्री, सा च रूढ्या क्षीरमज्जनमण्डनक्रीडनाङ्कभेदात्पञ्चधा, इह च दोषशब्दसामानाधिकरण्याद्धात्रीति निर्देशेऽपि धात्रीत्वकरणमिति द्रष्टव्यम् । पदे पदसमुदायोपचारात्, एवमन्यत्रापि । तथा दूती परस्परस्य संदिष्टार्थाभिधायिका स्री । निमित्तमिति निमित्तकरणम्, अतीतवर्तमानानागतार्थसंसूचनम् । तथा आजीवो जातिकुलगणकर्मशिल्पानां गृहस्थसमानानामभिधानत उपजीवनमाजीवः । तथा वनीपक इति वनीपकत्वकरणम्, तत्र वनीं दायकाभिमतजनप्रशंसोपायतो लब्धार्थरूपां पाति पालयतीति वनीपः, स एव वनीपकः । चिकित्सा रोगप्रतीकारः । चशब्दः समुच्चये । क्रोधः कोपः, मानो गर्वः, माया वञ्चना, लोभश्च लुब्धता भवन्ति स्युः दशैतेऽनन्तरोक्ता उत्पादना दोषा इति योगः ।
तथा पूर्वं दानात्प्राक् पश्चाच्च संस्तवो दातुः श्लाघा पूर्वपश्चात्संस्तवः । तथा विद्या देवताधिष्ठितः ससाधनो वाऽक्षरानुपूर्वीविशेषः, इह च विद्येत्युपादानेऽपि विद्याप्रयोग इति द्रष्टव्यम् । एवं मन्त्रादिपदत्रयेऽपि, नवरं मन्त्रो देवाधिष्ठितोऽसाधनो वाऽक्षररचनाविशेषः । चूर्णः पादलेपादियोग्य आकाशगमनादिफलो द्रव्यचूर्णः । योगस्तु वशीकरणादिफलो द्रव्यसंयोगः । चशब्दौ समुच्चयार्थौ । उत्पादनाया दोषाः पिण्डोपार्जनस्य दूषणानि एते पञ्चदश । षोडशश्च षोडशः पुनः मूलमष्टमप्रायश्चित्तं तत्प्राप्तिनिबन्धनं कर्म व्यापारो गर्भपातादि, मूलानां वा वनस्पत्यवयवविशेषाणां कर्म मूलकर्म । चशब्द: पुनरर्थः, तत्प्रयोगश्च दर्शित एवेति गाथाद्वयसमासार्थः ।।१८, १९।।
चक्रे० : अथैषणादोषानाहुः - देव० : अथैषणादोषानाह -
संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे ।
अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।१२४ ।। चक्रे० : १-शङ्कितमाधाकर्मादिना। २-पृथ्व्यादिना म्रक्षिताभ्यां करमात्रकाभ्यां दीयमानं म्रक्षितम्। ३-निक्षिप्तं पृथ्वीकायादौ। ४-पिहितं सचित्तफलादिना। ५-दानभाजनस्थमयोग्यं सचित्ते पृथ्व्यादौ निक्षिप्य तेनैव ददतः संहतम्। ६-अन्धादिर्दायकोऽयोग्यस्ततोऽन्नाद्यादातुं यतेन कल्पते।