________________
१६२
सा च षोडशभेदा, ततस्तानेव षोडशभेदान् गाथाद्वयेनाह .
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
* पिण्डनिर्युक्तो - ४०८, ४०९*
धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।।
पुव्विं पच्छासंथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ।।
धात्री बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम्, तथा विवक्षणात्, एवं दूत्यपि भावनीया, नवरं दूती परसन्दिष्टार्थकथिका । निमित्तमतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चामुमेव निमित्तशब्दवाच्यमर्थमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नैरुक्तिशब्दव्युत्पत्तिमेवमाचक्षते, नियतमिन्द्रियेभ्य इन्द्रियार्थेभ्यः समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्मात्तदिन्द्रियार्थादि निमित्तमिति, उक्तं चाङ्गविद्यायाम् –
इंदिहिंदियत्थेहिं समाहाणं च अप्पणो । नाणं पवत्तए जम्हा निमित्तं तेण आहियं ।। तच्चाङ्गादिभेदादष्टधा, तदुक्तम्
अंगं सरो लक्खणं (च) वंजणं सुविणो तहा । छिन्नं भोमंतलिक्खा य एमेए (एए) अट्ठ वियाहिया ।। एए महानिमित्ता उ अट्ठ संपरिकित्तिया । एएहिं भावा नज्जंती तीतानागयसंपया । ।
निमित्तहेतुकं च यद् ज्ञानं तदप्युपचारान्निमित्तं तदेवेहाधिकृतम्, तथा चाङ्गादिनिमित्तहेतुकं ज्ञानमेव प्रयुञ्जानो यतिर्दोषवानग्रे वक्ष्यते । आजीव आजीविका । वनीपको भिक्षाचरस्तस्येव यत्समाचरणं तदपि वनीपकः । शब्दव्युत्पत्तिं च स्वयमेवाग्रे वक्ष्यति, चिकित्सा रोगप्रतिकारः । क्रोधमानमायालोभाः प्रतीताः । पूर्वसंस्तवो मात्रादिकल्पनया परिचयकरणम् । पश्चात्संस्तवः श्वश्रवादिकल्पनया परिचयकरणम् । विद्या स्त्रीरूपदेवताधिष्ठिता ससाधना वाऽक्षरविशेषपद्धतिः । सैव पुरुषदेवताधिष्ठिता असाधना वा मन्त्रः । चूर्णः सौभाग्यादिजनको द्रव्यक्षोदः । योग आकाशगमनादिफलो द्रव्यसङ्घातः । एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडश दोषो मूलकर्म वशीकरणम् । इह धात्र्या पिण्डः - धात्रीपिण्डः, किमुक्तं भवति ? धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्डः । यस्तु दूतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः । एवं निमित्तादिष्वपि भावनीयम् ।।४०८, ४०९।।
-
* पञ्चाशके-१३/१८, १९ पिण्डविशुद्धिप्रकरणे-५८, ५९* तानेव नामतो दर्शयन्नाह
धात दूति मित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एते ।।