________________
४-साधुतत्त्वम् गा-१२४
१०-घृतादि छर्दयन् यद्ददाति तच्छर्दितम्, छर्दमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दूदाहरणेन विराधनासम्भवात्।
एतेषु च प्रथमैकवचनान्तता सर्वत्र दृश्या । एषणादोषा एते दश भवन्ति । एते गृहिसाधुप्रभवास्तथैव सम्भवात्, तथेहानुक्ता अपि पञ्च ग्रासैषणादोषाः शिष्यहितायाभिधीयन्ते-संयोजना, प्रमाणातिरिक्तता, अङ्गारः, धूमः, कारणाभावश्च ।
१-तत्र रसलोभाद् द्रव्यस्य मण्डकादेव्यान्तरेण खण्डादिना वसतेर्बहिरन्तर्वा योजनं संयोजना।
२-धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणम्, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति तत्परिहारात् प्रमाणातिरिक्ततादोषः। ३-स्वाद्वन्नं तद्दातारं वा प्रशंसन् यद्भुङ्क्ते स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादङ्गारदोषः । ४-निन्दन् पुनश्चारित्रेन्धनं दहनधूमकरणाद्भूमदोषः ।
५-क्षुद्वेदनाया असहनम्, क्षामस्य च वैयावृत्त्याकरणम्, ईर्यासमितेरशुद्धिः, प्रेक्षोपेक्षादेः संयमस्य चाऽपालनम्, क्षुदातुरस्य प्रबलाग्न्युदयात् प्राणप्रहाणशङ्का, आर्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि, तदभावे भुञ्जानस्य कारणाभावो दोषः।
एवं सर्वमीलने सप्तचत्वारिंशद्भवन्ति । एतद्विषयविभागप्रतिभेदादिविस्तरार्थिना पिण्डनिर्युक्त्याद्यन्वेषणं विधेयम्, इह तु ग्रन्थगौरवभयान्न प्रतन्यत इति गाथार्थः ।।१२४ ।।
* पिण्डनियुक्तौ-५२० * ततस्तानेव शङ्कितादीन् भेदान् प्रदर्शयति -
संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे ।
अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।। शङ्कितं सम्भाविताधाकर्मादिदोषम्, प्रक्षिप्तं सचित्तपृथिव्यादिनाऽवगुण्डितम्, निक्षिप्तं सचित्तस्योपरि स्थापितम्, पिहितं सचित्तेन स्थगितम्, संहतमन्यत्र क्षिप्तम्, दायकं दायकदोषदुष्टम्, उन्मिश्रितं पुष्पादिसम्मिश्रम्, अपरिणतमप्रासुकीभूतम्, लिप्तम्, छर्दितं भूमावावेडितम्, एते दशैषणादोषा भवन्ति ।।५२०।
१. धर्मध्यानास्थिरीकरणं TA.C