________________
४-साधुतत्त्वम् गा-१२०, १२१
* पञ्चाशके-१३/५,६ * अथ तानेवाह -
आहाकम्मुद्देसिय पूतिकम्मे य मीसजाए य । ठवणा पाहुडिया य पाओयर कीअ पामिछे ।। परियट्टिए अभिहडे उब्भिण्णे मालोहडे इय ।
अच्छेज्जे अणिसटे अज्झोयरए य सोलसमे ।। आधानमाधा प्रणिधानं तया साधुप्रणिधानेनेत्यर्थः, कर्म क्रिया पाकादिकेत्याधाकर्म इत्येक उद्गमदोषः, तद्योगाद्भक्ताद्यप्याधाकर्म । तथोद्देशनमुद्देशो यावदर्थिकादिप्रणिधानमित्युद्गमदोषः, तेनोद्देशेन निर्वृत्तं तत्प्रयोजनं वा औद्देशिकं भक्तादि । इह दोषप्रकमेऽपि यद्दोषवतोऽभिधानं तद् दोषदोषवतोरभेदविवक्षणात्, एवं सर्वत्र । अनुस्वारस्य चाश्रयणमत्र प्राकृतवशात् । तथा पूत्यपवित्रं, तस्य कर्म पवित्रस्य सतोऽपवित्रभक्तादिमीलनेन करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म। एकारान्तोऽत्र शब्दः प्रथमैकवचनान्तो दृश्यः, चशब्दः समुच्चये । तथा मिश्रेण गृहिसाध्वादिप्रणिधानलक्षणभावेन जातमुत्पन्नं पाकादिभावमुपगतं मिश्रजातमन्नाद्येव, चशब्दस्तथैव । तथा स्थाप्यते साधुदानाय कञ्चित्कालं यावन्निधीयत इति स्थापना, स्थापनाधर्मयोगाद्वा स्थापना भक्ताद्येव । तथा 'प्र' इति विवक्षितकालात्प्रथमतः, 'आ' इति साध्वागमनलक्षणमर्यादया च 'भृता' धारिता यका भिक्षा, सा स्वार्थिकप्रत्ययोपादानात् प्राभृतिकाऽथवा प्राभृतं कौशलिकम्, तदेवोपचारसाधाद्यका भिक्षा सा प्राभृतिकेति। चः समुच्चये, तस्य च दीर्घता छन्दोऽर्था। तथा प्रादुःशब्दः प्रकाशार्थः, तस्य करणं प्रादुष्कारः, तद्विशेषितं भक्ताद्यपि स एव । इह हूस्वता छन्दोऽर्था । तथा क्रीयते स्म अर्थदानेन गृह्यते स्मेति क्रीतं भक्तादि । तथाऽपमित्यं पुनः दास्याम्येतत्तवेत्यभिधाय यद्गृहीतं तदपमित्यकमुच्छिन्नं भक्ताद्येव । 'पामिचं' इति चनिर्देशः प्राकृतत्वात्। इह च पदत्रये समाहारद्वन्द्वः, लुप्तप्रथमैकवचनं वा आद्यं पदद्वयमिति ।
तथा परिवर्तितं कृतपरावर्तम् । तथा अभि साध्वभिमुखं हतमानीतं स्थानान्तरादभिहतमभ्याहतमित्यर्थः । तथोद्भिन्नमुद्भेदनं कुशूलादेः, तद्योगाद्भक्ताद्यप्युद्भिनम् । तथा मालाद् मञ्चात्, प्रासादोपरितनभागाद्वा, अपहतमानीतं साधवे दानायेति मालापहतम्। इतिरुपप्रदर्शने, चः समुच्चये, अयमप्युद्गमदोष इत्यर्थः । तथाऽऽच्छिद्यते पुत्रादेः सकाशाद् यत् साधुदानार्थं तदाच्छेद्यम् । तथा न निसृष्टं सर्वस्वामिभिर्नानुज्ञातं साधुदानाय तदनिसृष्टम् । तथाऽधिक्येनावपूरणमध्यवपूरः, स एवाध्यवपूरकस्तद्योगाद्भक्ताद्यप्यध्यवपूरकः, चः समुञ्चये । षोडशोद्गमदोषा भवन्ति । इति गाथाद्वयपदसंस्कारः ।।५, ६।।