________________
१५८
रणम - सम्यक्त्वप्रकरणम
परियट्ठिए अभिहडे उब्भिन्ने मालोहडे इय ।
अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे ।। 'आधाकर्मेति' १-आधानं-आधा 'उपसर्गादात' इत्यङ् प्रत्ययः, साधुनिमित्तं चेतसः प्रणिधानम्, यथाऽमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति, आधया कर्म पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यम्, यद्वा-आधाय साधं चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद् यलोपः, तथा २-उद्देशम् उद्देशः यावदर्थिकादिप्रणिधानं तेन निवृत्तमौद्देशिकम्, तथा ३-उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूतेः पूतीभूतस्य कर्म करणं पूतिकर्म तद्योगाद्भक्ताद्यपि पूतिकर्म, तथा ४-मिश्रेण कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्तादि तन्मिश्रजातम्, तथा ५-स्थाप्यते साधुनिमित्तं कियन्तं कालं यावनिधीयत इति स्थापना, यद्वा स्थापनं साधुभ्यो देयमिति बुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना, तथा ६-कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, 'अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी ति वचनात् पूर्वं नपुंसकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वम्, यद्वा प्र इति प्रकर्षण
आ इति साधुदानलक्षणमर्यादया भृता निर्वतिता यका भिक्षा सा प्राभृता, ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका, तथा ७-साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन वा प्रादुः प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणम्, यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणम्, तथा ८-क्रीतं यत्साध्वर्थं मूल्येन परिगृहीतम्, तथा ९-'पामिछे' इति अपमित्य भूयोऽपि तव दास्यामीत्येवमभिधाय यत् साधुनिमित्तमुच्छिन्नं गृह्यते तदपमित्यम्, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तम्, तथा १०-परिवर्तितं यत्साधुनिमित्तं कृतपरावर्तम्, तथा ११-अभिहतं यत्साधुदानाय स्वग्रामात्परग्रामाद्वा समानीतम्, अभि साध्वभिमुखं हृतं स्थानान्तरादानीतमभिहतमिति व्युत्पत्तेः, तथा १२-उद्भेदनमुद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृताद्युद्भिन्नम्, तथा १३-मालाद् मञ्चादेरपहतं साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतम्, तथा १४-आच्छिद्यत अनिच्छतोऽपि भृतकपुत्रादेः सकाशात्साधुदानाय परिगृह्यते यत् तदाच्छेद्यम्, तथा १५-न निसृष्टं सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत् तदनिसृष्टम्, तथा १६-अधि आधिक्येनावपूरणं स्वार्थदत्ताद्रहणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकस्तद्योगाद्भक्ताद्यप्यध्यवपूरकः, षोडशोद्गमदोषाः ।।९२, ९३।।