SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१२०, १२१ १५७ ६-कालान्तरभाविनो विवाहादेः ‘इदानीं सन्निहिताः साधवः सन्ति, तेषामप्युपयोगो भवतु' इति बुद्ध्या इदानीमेव करणम्, समयपरिभाषया प्राभृतिका सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागमं सञ्चिन्त्योत्कर्षणं वा, एकारः पादपूरणे। ७-अन्धकारव्यवस्थितस्य द्रव्यस्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा प्रकटकरणं प्रादुष्कारः, इस्वता छन्दोवशात्। ८-साध्वर्थं मूल्येन क्रीयते स्मेति क्रीतम् । ९-साध्वर्थमुद्यतकं गृहीत्वा यदन्नादि दीयते तत्प्रामित्यकमिह च क्वचिद्विभक्तिलोपः प्राकृतत्वादिति । १०-तथा स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत्परिवर्तितम्। ११-गृहग्रामादेः साध्वर्थमानीतमभिहतम्। १२-कुतुपादिस्थस्य घृतादेर्दानार्थं यन्मृत्तिकाद्यपनयनं तदुद्भिन्नम्। १३-मालात्प्रसिद्धाद्, उपलक्षणं चैतदुर्ग्राह्यतायास्तेन शिक्यादेर्भूमिगृहाद्वाऽपहतमानीतं साधुदानाय मालापहतम्, इतिर्वाक्यसमाप्तौ । १४-यदाच्छिद्य परकीयं हठाद् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम्। १५-यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वैकः कश्चिद्ददाति तदनिसृष्टम्। १६-स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यावापः सोऽध्यवपूरकः, चः समुच्चये । षोडशोद्गमदोषा इति प्रकृतमिह च दोषप्रक्रमेऽपि क्वचिद्दोषवतोऽभिधानम्, तयोरभेदविवक्षणादेवमुत्तरत्राप्यवसेयमेते च गृहस्थसम्भवाः साध्वर्थं तेन विधीयमानत्वादितिगाथाद्वयसमासार्थः ।।१२०, १२१ ।। * पिण्डनियुक्तौ-९२,९३ * आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओअर कीय पामिच्चे ।। १. तस्य चैकार: छन्दोऽर्थः । T.B.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy