________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
६-प्राभृतं ढौकनं तदेवाल्पं प्राभृतिका, आगमिष्यन्त्यागता वा गुरव इति गुरूणां विशिष्टाशनाद्युपयोगार्थं परतः करणाऽर्वाक्करणादिना विवाहाद्युत्सव एव बादरः प्राभृतिका ।
७-तमःस्थस्याहारस्य साध्वर्थं बहिः स्थापनेन गवाक्षादिना वा प्रकाशकरणं प्रादुष्कारः । ८- साध्वर्थं मूल्येन क्रीयते स्म क्रीतम् ।
९-‘मेङ् प्रतिदाने' प्रमाणं प्रमितं प्रमिते साधुयोग्यं प्रमित्यं प्रतिदानयोग्यमुच्छिन्नं गृहीतमित्यर्थः, ततः साध्वर्थमुच्छिन्नं गृहीत्वा यद्दत्ते तत् प्रामित्यं नाम दोषः ।
१०-यच्छाल्यादि कोद्रवादिनाऽन्यस्मात् परावृत्त्य दत्ते तत् परावर्त्तितम् ।
११-स्वपरग्रामादेः साध्वर्थमानीतमभिहृतम्।
१५६
१२-साध्वर्थं कुतुपादेः पिधानमृत्तिकामुद्भिद्य अव्यापारकपटादुद्घाट्य वा यद्दत्ते तदुद्भिन्नम् । १३-मालादपहृतं दुर्ग्राह्योपलक्षणं चैतत् तेन शिक्यादेर्भूमिगृहाद् वा साध्वर्थमानीतं मालापहृतम् । १४-यदाच्छिद्य परकीयं पुत्रकलत्रादिसत्कं वा हठेनादाय स्वाम्यादिर्दत्ते तदाच्छेद्यम् । १५-यदन्याननुमतं बहुजनार्थराद्धादेको दत्ते तदनिसृष्टम् ।
१६-स्वार्थमधिश्रयणादौ साध्वागमश्रवणात् तदर्थं योऽध्यवपूरोऽधिकधान्यक्षेपः सोऽध्यवपूरकः षोडशः ।
एत उद्गमदोषाः । उद्गमे पिण्डोत्पत्तौ दोषाः साध्वर्थं गृहिणा क्रियमाणत्वादिति गाथाद्वयसङ्क्षेपार्थः ।।१२०, १२१ ।।
देव० : १-आधाय विकल्प्य यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म ।
२-उद्देशः साध्वर्थं सङ्कल्पः, स प्रयोजनमस्येत्यौद्देशिकम्, यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुर्वतो भवति ।
३ - पूत्यवित्रं तस्य कर्म, शुद्धस्याप्याधाकर्मिकावयवेन सन्मिश्रीकरणं शुचिद्रव्यस्यैवाशुचिद्रव्येण, अत्रैकारान्तशब्दः प्रथमैकवचनान्तो दृश्यः, चः समुच्चये ।
४-यदात्मार्थं साध्वर्थं चादित एव मिश्रं जातं पाकभावमुपगतं तन्मिश्रजातम् । ५- साधुदानार्थं किञ्चित्कालं क्षीरादेः स्थापनं स्थापना ।