________________
४-साधुतत्त्वम् गा-१२०, १२१
१५५
षोडश उद्गमे दोषा आधाकर्मप्रभृतयः, षोडश उत्पादनायां दोषाः धात्र्यादयः, दश पिण्डैषणायां दोषाः शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ।।७३९ ।।
* प्रवचनसारोद्धारे-५६३ * तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोषै रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभेदानाह
सोलस उग्गमदोसा सोलस उपायणाय दोसत्ति ।
दस एसणाय दोसा बायालीसं इह हवन्ति ।। षोडशोद्गमदोषा उद्गमनमुद्गमः पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयो दोषा उद्गमदोषाः, तथा षोडशोत्पादनादोषा उत्पादनमुत्पादना मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं तद्विषया दोषा उत्पादनादोषाः, तथा दशैषणादोषा एषणमेषणा अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः, एते चेह त्रयोऽपि मिलिता द्विचत्वारिंशद्भवन्ति ।।५६३।।
चक्रे० : तत्र तावदुद्गमदोषानाहुः - देव० : तत्र तावदुद्गमदोषानाह -
आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ।।१२० ।। परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय ।
अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे।।१२१।। चक्रे० : १-आधाय संकल्प्य यतिं यत्कर्म षट्कायाऽऽरम्भेण पचनपाचनादिकरणं तनिरुक्तादाधाकर्म।
२-यत् पूर्वकृतमोदनमोदकक्षोदादि साधूनामुद्देशेन दध्यादिना गुडपाकेन च संस्कृतं तदौदेशिकम् । ३-अशुचिलवेनेवाऽऽधाकाद्यंशेनाऽपि विशुद्धस्याप्यन्नादेः पूतेरपवित्रस्य करणं पूतिकर्म। ४-यत् स्वार्थं साध्वर्थं चाऽऽदित एवारभ्य मिश्रमेव जातं तन्मिश्रजातम् । ५-साध्वर्थं कञ्चित्कालं क्षीरादेः स्थापनं स्थापना।
१. अभिहडुब्भिन्ने A.P.K २. अणिसिटे A