________________
१५२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : जीवाः प्राणिनः सुखैषिणः शर्माभिलाषिणः, यदवाचि
सव्वेवि सुक्खकंखी सव्वेवि हु दुक्खभीरुणो जीवा । सव्वेव जीवियपिया सव्वे मरणाओ बीहंति ।। [
अथ जीवानां शिवसुखाबाधिपिण्डदोषभणनेनैव प्रस्तावयन्नाह
—
]
तत्पुनः सुखं तात्त्विकं शिव एव सर्वकर्माभावमोक्ष एव, तत्पुनः शिवं संयमेन पूर्वोक्तेन, स पुनः संयमो देह आहारभूते, शरीरमाद्यं खलु धर्मसाधनमिति वचनात् स पुनर्देहः पिण्डेन पूर्वोक्तेन, सह दोषैः सदोषः स पुनः पिण्डः प्रतिक्रुष्टः प्रतिषिद्धः सर्वजिनैरिति गम्यते, इमे अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षास्ते पुनर्दोषाः । च पुनरर्थे, सर्वेष्वपि च तच्छब्देषु योज्यते, तेनोचितं चैतदिति गाथार्थः ।। ११८ ।।
* पिण्डविशुद्धिप्रकरणे - २ *
जीवा सुसिणो तं सिवम्मि तं संजमेण सो देहे । सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य ।।
जीवाः प्राणिनस्ते किमित्याह - सुखैषिणः साताभिलाषिणः, उक्तं च -
सवे वि सुक्खकंखी सव्वे वि हु दुक्खभीरुणो जीवा । सव्वे वि जीवियपिया सव्वे मरणाउ बीहंति ।। त्ति । ‘तं' ति पुनःशब्दार्थस्य गम्यमानत्वात्, तत्पुनः सुखं स्वाभाविकं निरुपममनन्तं च शिव एवसर्वकर्माभावलक्षणमोक्ष एव यदुक्तम्
नवि अत्थि माणुसणं तं सोक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ।। संसारि(क) सुखं तु सुखमेव न भवति, विपर्यासरूपत्वात्, दुःखप्रतीकारमात्रस्य सुखबुद्ध्या ग्रहणात् । भणितं च
-
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभिः, क्षुधार्त्तः सन् शालीन् कवलयति मांसादिफणितान् । प्रदीप्ते रागाग्नौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ।। इति । 'तं' ति उक्तन्यायात् तं पुनः शिवं जीवाः प्राप्नुवन्ति, केनेत्याह-संयमेन
पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः । । इति शास्त्रान्तर (नन्दीवृत्ति) प्रसिद्धेन
१. तं पुनः शिवं जीवाः प्राप्नुवन्ति केनेत्याह । संयमेन प्रागभिहितस्वरूपेण पुनः संयमो देहे काये भवति । स पुनर्देहः पिण्डेनैवाशनाद्याहारेणैव सत्तामात्रमपि धारयति । T,B,C २. भावितं चैतदत्र च सर्वत्रानुरूपक्रियाध्याहारः कार्यइति गाथार्थः । T,B,C