________________
४-साधुतत्त्वम् गा-११७, ११८
१५१
चक्रे० : अकल्पस्थापनाकल्पमेव विवृण्वन्ति - देव० : इह शेषदोषाणां सुज्ञानत्वादकल्पस्थापनाकल्पदोषे तु सति शेषदोषाणामपि सम्भवात्सप्रतिपक्षतद्विषयविभागस्य च दुर्ज्ञानत्वात्तमेव विवृणोति -
पिंडं सेज्जं वत्थं पत्तं चारित्तरक्खणट्ठाए ।
अकप्पं वज्जिज्जा गिण्हिज्जा कप्पियं साहू।।११७ ।। चक्रे० : सुगमा, नवरं शय्यां वसतिम्, अकल्पमाधाकर्मादिदोषदुष्टम्।।११७ । ।
देव० : पिण्डं समयपरिभाषया चतुर्विधमाहारम्, शय्यां वसतिम्, वस्त्रमन्तरकल्पादि, पात्रमलाब्वादि, अकल्पमकल्पनीयं वर्जयेत्परिहरेत् । कस्मै ? चारित्ररक्षणार्थाय संयमपरिपालनप्रयोजनाय, तथा गृह्णीयादुपाददीत श्रुतत्वात्पिण्डाद्येव, किंविशिष्टम् ? कल्पिकमाधाकर्मादिदोषरहितं साधुरिति गाथार्थः ।।११७ ।।
* दशवैकालिकनियुक्तौ-६/४७ * एतदेव स्पष्टयति -
पिंडं सिज्जं च वत्थं च चउत्थं पायमेव य ।
अकप्पिअं न इच्छिज्जा पडिगाहिज्ज कप्पिउं ।। "पिंडंति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः ।।४७।।
चक्रे० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषवः प्रस्तावनामाहुः - देव० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषुः प्रस्तावनामाह
जीवा सुहेसिणो तं सिमि तं संजमेण सो देहे ।
सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य।।११८ ।। चक्रे० : जीवाः सुखैषिणस्तत्सुखमैकान्तिकं शिवे, तच्छिवं संयमेन, स संयमो देहे, स देहः पिण्डेन वर्तते, स पिण्डः सदोष आधाकर्मादिदोषदुष्टः प्रतिक्रुष्टो निषिद्धः सर्वजिनैः, ते च इमे वक्ष्यमाणा इति गाथार्थः ।।११८ ।। १. दुर्जेयत्वात्तमेव T,B,C २. सिज्जं P.K, ३. वजेज्जा गिण्हेज्जा A.Z ४. कल्पितम् A