________________
१५०
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो जढो भवइ संजमो ।। [ दशवे. ६-६१]
इत्यादि, शोभा विभूषा दशनघर्षण - नखघटन - रोमकल्पन-केशसमारचनाऽकालवस्त्रप्रक्षालनादिरूपा, तस्या विवर्जनमेव विवर्जनकमननुष्ठीयमानमिति गम्यम्, अभाणि च -
-
नगिणस्स वावि मुंडस्स दीहरोमनहंसिणो । मेहुणा वसंतस्स किं विभूसाए कारियं ।।
विभूसावत्तियं भिक्खू कम्मं बंधइ चिक्कणं ।
संसारसागरे घोरे जेणं पडइ दुरुत्तरे ।। [ दशवै० ६-६५, ६६ ]
इत्यादि । इह चाद्यषट्कद्वयेन मूलगुणाः प्रतिपादिता, अकल्पादिदोषषट्केन तूत्तरगुणा इति गाथार्थः ।।११६।।
* दशवैकालिकनिर्युक्तौ - २६८ *
वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंकनिसेज्जा य सिणाणं सोहवज्जणं ।।
तमेव दर्शयति
-
व्रतषट्कं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि, कायषट्कं पृथिव्यादयः षड्जीवनिकायाः, अकल्पः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं गृहसम्बन्धि कांस्यभाजनादि प्रतीतम्, पर्यङ्कः शयनविशेषः प्रतीतः । निषद्या च गृहे एकानेकरूपा, स्नानं देशसर्वभेदभिन्नम्, शोभावर्जनं विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः । । २६८ ।।
* व्यवहारसूत्रम् - ४४४०*
—
वयछक्क कायछक्कं अकप्पो गिहिभायणं ।
पलियंक निसज्जा याऽसिणाणं सोभवज्जणं ।।
व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तम् कायषट्कं पृथिव्यादि, अकल्प्यः पिण्डादिकः, गृहिभाजनं कांस्यपात्र्यादि पल्यङ्कः प्रतीतः, निषद्या गोचरप्रविष्टस्य निषदनम्, अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनम्, [शोभावर्जनम् ] विभूषापरित्यागः । एतद् विधेयतया प्रतिषेध्यतया वा यद् यथोक्तं नाऽऽचरितं तद् आलोचयति ।।४४४०।।