________________
४-साधुतत्त्वम् गा-११६
कायषट्केऽपि कायानाम्, पृथिवीकायादित्रसकायान्तानां षट्कं कायषट्कम् । अथाद्यव्रतविराधनाभणनेनैव कायषट्कविराधनमुक्तार्थमिति चेत्सत्यम्, विशेषरूपतयाऽस्य भणनाद्, विशेषाणां तु सामान्यात्कथञ्चिद्भिन्नत्वान्नोक्तसङ्ख्याहानिरपि । अकल्पो द्विविधः, शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च तत्र शिक्षकस्थापनाकल्पोऽनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमप्याहारादि न कल्पत इति उक्तं च
-
अणहीया खलु जेणं पिंडेसणसेज्जवत्थपाएसा ।
तेाऽऽणियाणि जइणो कप्पंति न पिंडमाईणि ।। [ अन्नायउंछकुलक- ३]
उउबर्द्धपि न अनला वासावासासु दोवि नो सेहा । दिक्खिज्जती सेह ठेवणाकप्पो इमो होइ ।। [ ]
अकल्पस्थापनाकल्पं तु स्वयमेव वक्ष्यति, दोषत्वं चैतस्य विपर्ययासेवनाद् । गृहिणो भाजनं गृहिभाजनं स्थालकरोटकादि भोजनाद्यर्थमासेव्यमानमिति गम्यम्, उक्तं च कंसेसु कंसपाए कुंडमोसु वा पुणो ।
-
भुजतो असणपाणाई आयारा परिभस्सइ ।। [ दशवै० ६-५१]
कांस्येषु करोटकादिषु, कांस्यपात्रेषु तलिकादिषु, कुण्डमोदेषु हस्तिपादाकारेषु मृन्मयादिषु । इह जकारलोपः प्राकृतत्वात् समाहारत्वाच्चैकत्वमेवमुत्तरत्रापि । पल्यङ्कः प्रतीतः, शयनासनविषयीक्रियमाण इति गम्यम्, उपलक्षणं चैतत् खट्वामञ्चकासन्दिकादीनाम्, यदाह
आसंदीपलियंकेसु मंचमासालयेसु वा ।
अणायरियमज्जाणं आसइत्तु सइत्तु वा ।। [ दशवै ० ६-५४ ]
१४९
गोयरग्गपविट्ठस्स निसिज्जा जस्स कप्पइ ।
इरिसमणायारं आवज्जइ अबोहियं । । [ दशवै० ६-५७ ]
1
आसन्दपर्यङ्कमञ्चाः प्रतीताः, आसालकः समंगकसमन्वित आसनविशेषः, शुषिरत्वं चैतेषु दोषः । निषदनं निषद्याः समयप्रसिद्धा भिक्षागतस्योपवेशनक्रिया, यदवाचि
-
इत्यादि, अपिचेति समुच्चये, स्नानं मज्जनं देशतः सर्वतो वा, उपलक्षणत्वात्कल्करोध्वादिभिरूद्वर्त्तनं च तथा च
१. 'कंसपात्रेषु तिलकादिषु' इति दशवैकालिकनिर्युक्त्याम् २. आसन्दपर्यङ्कौ प्रतीतौ मञ्चोऽपि रुढः T,B,C ३. 'आशालकस्तु अवष्टम्भसमन्वित' इति दशवैकालिकनिर्युक्त्त्याम् ।