________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
पृथ्वीकायादीनां षट्कम्, अथाद्यव्रतविराधनभणनेनैव कायषट्कविराधनमुक्तार्थमिति चेत्, ? सत्यम्, पृथ्व्यादीनां लोके जीवतत्त्वमप्रसिद्धमिति विशेषेणाऽऽख्यानम् । अकल्पो द्विविधः शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च, तत्राद्यः
१४८
अणहीया खलु जेणं पिंडेसणसिज्जवत्थ पाएसा ।
तेणाऽऽणियाणि जइणो कप्पंति न पिंडमाईणि ।। [ अन्नायउंछकुलक-३]
उउबद्धम्मि न अनला वासावासासु दो वि नो सेहा । दिक्खिज्जती सेहवणाकप्पो इमो होइ ।। [ ]
अकल्पस्थापनाकल्पं तु स्वयमेव वक्ष्यति, दोषत्वं चाऽस्य विपर्ययाऽऽ सेवनात् । गृहिभाजनं स्थालादि, तत्र भुञ्जानस्य दोषो यदाह
कंसेसु कंसपाएसु कुंडमोसु वा पुणो ।
भुंजतो असणपाणाई आयारा परिभस्सइ ।। [ दशवै० ६-५१]
पल्यङ्कः प्रतीतस्तत्र शयनाऽऽसनादौ शुषिरत्वाद् दोष उपलक्षणं चैतन्मञ्चकादीनाम् । निषद्या समयभाषया भिक्षागतस्योपवेशनक्रिया, सा न कल्पते । स्नानं देशतः सर्वतो वा, उपलक्षणत्वादुद्वर्त्तनं च, यदाहुः
वाहीओ वा अरोगी वा सिणाणं जो उ पत्थए ।
वुक्कंतो होइ आयारो जढो हवइ संजमो ।। [ दशवै ० ६ - ६१]
शोभा विभूषा, दशनघर्षण-नखघटन - रोमकल्पन- केशसमारचनाऽकालवस्त्रक्षालनादिरूपा, तस्या विवर्जनमविवर्जने दोष:, उक्तं च
नगिणस्स वा वि मुंडस्स दीहरोमनहंसिणो । मेहुणा उवसंतस्स किं विभूसाए कारियं । ।
विभूसा वत्तियं भिक्खू कम्मं बंधइ चिक्कणं ।
संसारसारे घोरे जेणं भमइ दुरुत्तरे ।।२।। [ दशवै० ६-६५, ६६ ]
इह चाद्यषट्कद्वयेन मूलगुणा उक्ताः, अकल्पादिषट्केन तूत्तरगुणा इति गाथार्थः ।।११६।। देव० : प्रथममिति क्रमार्थम्, व्रतानां प्राणिवधविरमणादीनां रात्रिभोजनविरमणावसानानाम्, षट् परिमाणमस्य षट्कमिह च व्याख्यानाद् व्रतानां विराधनानि प्रत्येकं दोषत्वेनावसेयान्येवं