________________
४-साधुतत्त्वम् गा-११८
पुढवि
- दग-अगणि-मारुय वणस्सइ-बि-ति-चउ-पणिदि - अजीवे ।
पेहोप्पेह - पमज्जण-परिट्ठवण-मणो-वई-काए ।।
१५३
इत्यागमप्रसिद्धेन वा । अत्र चाद्यः संयमः प्रसिद्ध एव द्वितीयस्तु शिष्यहितार्थं किञ्चिदुच्यते-तत्र पृथिव्यादिपञ्चेन्द्रियान्तजीवानां मनोवाक्कायैः करणकारणानुमतिभेदतः सङ्घट्टनपरितापनापद्रावणपरिहाररूपो नवविधः संयमो भवति । अजीवसंयमस्तु पुस्तका ( ? अ) प्रत्युपेक्ष्य दुष्प्रत्युपेक्ष्य (च पुस्तक) दूष्य-तृण-चर्मपञ्चक-विकटहिरण्यादीनामग्रहणरूपः । आह- किमेषामग्रहण एव संयम ? उत ग्रहणेऽपि ? उच्यते - अपवादतो ग्रहणेऽपि यत उक्तम् -
दुप्पडिलेहिय दूसं अद्धाणाई विवित्तगिण्हंति । घेप्पइ पोत्थयपणयं कालियनिज्जुत्तिकोसट्ठा ।। इत्यादि । ननु ज्ञानसाधनत्वात् पुस्तकपञ्चकस्य कथं नोत्सर्गतोऽपि ग्रहणम् ? उच्यते - सत्त्वोपघातहेतुत्वात्, आह चजइ तेसिं जीवाणं तत्थगयाणं (तु) च सोणियं होज्जा । पीलिज्जते धणियं गलिज्ज तं अक्खरे फुसिउं ।। इत्यादि ।
न
‘तत्र गतानां' पुस्तकस्थितानाम् । प्रेक्षासंयमस्तु यत्र स्थानादिकं किञ्चिदाचरति, तत्र प्रत्युपेक्ष्य प्रमार्ण्य चाचरतीति । उपेक्षासंयमस्तु द्विधा - व्यापारेऽव्यापारे च, उपेक्षाशब्दस्य लोके तथाप्रवृत्तिदर्शनात्, तथा च वक्तारो भवन्ति-उपेक्षकोऽयमस्य ग्रामस्य चिन्तक इत्यर्थः, तथा किमिदं वस्तु विनश्यदुपेक्षसे चिन्तयसीत्यर्थः, तत्र व्यापारोपेक्षासंयमो यत्साम्भोगिकसाधून् सीदन्त इतरांश्च प्रावचनिककार्ये प्रेरयति, अव्यापारोपेक्षासंयमस्तु यत्सावद्यकर्म्मसु सीदन्तं गृहिणं न प्रेरयति । प्रमार्जनासंयमस्तु यत्सागारिकसमक्षं पादौ न प्रमार्जयति, तदभावे तु प्रमार्जयतीति । परिष्ठापनासंयमस्तु जीवसंसक्तस्याशुद्धस्याधिकस्य क्षेत्रकालातिक्रान्तस्य वा भक्तादेर्विधिना यस्त्यागः । मनः संयमस्तु तस्यैवाकुशलस्य निरोधः, कुशलस्योदीरणम्, एवं वाक्संयमोऽपि । कायसंयमस्तु सति कार्य उपयोगतो गमनागमनादिविधानम्, तदभावे तु सुसंलीनकरचरणाद्यवयवस्यावस्थानमिति । अथ प्रकृतमुच्यते- 'सो' त्ति स पुनः संयमो देहे काये भवति, उद्घुष्यते च - ' शरीरमाद्यं खलु धर्मसाधनं' इत्यादीति । 'सो' त्ति स पुनर्देहः पिण्डेनैवाऽशनाद्याहारेणैव सत्तामात्रमपि धारयति, आबालगोपालाङ्गनादीनां प्रसिद्धं चैतत् । सह दोषैः सदोषः, ‘सो' त्ति स पुनः पिण्डः प्रतिक्रुष्टः प्रतिषिद्धः आगम इति गम्यते, इमेऽनन्तरमेव वक्ष्यमाणतया प्रत्यक्षास्ते दोषाः, चशब्दः पुनः शब्दार्थः । अत्र च गाथायां सर्वत्रानुरूपक्रियाऽध्याहारतोऽवसेया ।
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः 11 इत्यादाविवेति गाथार्थः ।। २ ।।