________________
१४४
करणम - सम्यक्त्वप्रकरणम्
चक्रे० : तथा च सति - देव० : तथा च -
अन्नाणंधा मिच्छत्तमोहिया कुग्गहुग्गगहगहिया ।
मग्गं न नियंति न सद्दहंति चिटुंति न य उचियं ।।११२।। __ चक्रे० : अज्ञानान्धाः सन्मार्गाऽनवलोकात्, अन्धोऽपि कश्चिन्मनोविज्ञानेन मार्ग नाऽतिक्रामतीत्याहुर्मिथ्यात्वेन मोहिता दिग्मूढवद् भ्रान्तचित्ताः, तेऽपि समयाऽन्तरे सचेतनाः स्युरित्याहुः कुग्रहोऽसदभिनिवेशः, स एवोग्रः क्रुरो ग्रहस्तेन गृहीता मार्ग मोक्षपथं न 'नियंति' न पश्यन्ति, न श्रद्दधति न बहुमन्यन्ते, न च चेष्टन्ते न प्रवर्तन्ते, उचितं मोक्षमार्गाऽनुरूपमित्यर्थो यथासङ्ख्यं वा कर्तृपदानां क्रियापदैः ।।११२।।
देव० : अन्धा इवान्धा मार्गानवलोकनादज्ञानेनान्धा अज्ञानान्धास्तथा मिथ्यात्वेन मिथ्यात्वमोहनीयेन मोहिता भ्रमितास्तथा कुग्रहोऽसदभिनिवेशः स एवोग्रग्रहो भूतादिस्तेन गृहीता आविष्टास्ते, किम् ? यथासङ्ख्यं न नियंतित्ति नावलोकयन्ति मार्गमात्मना, न श्रद्दधति न बहुमन्यन्ते परोपदिष्टमपि मार्गमेव, न च चेष्टन्ते व्यवहरन्त्युचितमनुरूपम्, मार्गस्यैव क्रियाविशेषणमिदम्, तथाहि- अज्ञानोपहतात्मनामन्धानामिव सत्त्वानां तत्त्वावलोकनविमुखी शेमुषी, मिथ्यात्ववासनाविपर्यस्तबुद्धीनां दिग्मूढानामिव तत्त्वश्रद्धानबहिःप्लवा मनोवृत्तिः कुदेवादिग्रहावेशवशंवदानामुन्मत्तानामिव सर्वतो हास्यहेतुरसमञ्जसा चेष्टेति गाथार्थः ।।११२।।
चक्रे० : इत्थमवगतमोक्षमार्गः कश्चित् सर्वविरतिं प्रपद्यते, तदशक्तस्तु तद्भावनामेवं भावयति, तद्यथा -
देव० : इत्थमवगतसम्यग्ज्ञानादिमोक्षमार्गः सुदुर्जयरागादिदोषजालादुद्विजमानः समुल्लसितवीर्यः कश्चिद्भावमार्गमेव प्रतिपद्यते, तदशक्तिमांश्च प्रतिपन्नद्रव्यस्तवः ‘सर्वविरतिलालसः खलु देशविरतिपरिणामः' इति वचनात् सर्वविरतिलालसत्वं यथा भावयति तथाह -
ता कइया तं सुदिणं सा सुतिही तं भवे सुनक्खत्तं । जंमि सुगुरुपरतंतो चरणभरधुरं धरिस्समहं।।११३।।
१. अवष्टब्धाः T.B.C२. परितंतो T.C.Z परत्तंतो A.P.K