________________
३-मार्गतत्त्वम् गा-१११
१४३
तथा श्रवणमाकर्णनं धर्मस्येति गम्यते, क्व ? सुतीर्थे सुष्टु सुखेन वा तीर्यते भवोदधिरनेनेति सुतीर्थं सम्यग्ज्ञानक्रियासम्पन्नः साधुः, अनेन क्रियाविकले धर्मश्रवणनिषेधमाह, यदाह -
चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः ।
निर्मलजलसम्पूर्णः कुलजैश्चाण्डालकूप इव ।। [ ] सुसाधुः वर्णितस्वरूपस्तस्य सेवा पर्युपास्तिः, अनेनासाधुसंसर्गनिषेधमाह, यतः -
अंबस्स य निंबस्स य दुण्हंपि समागयाइं मूलाई ।
संसग्गीइ विनट्ठो अंबो निंबत्तणं पत्तो ।। [आव.नि. १११६] अयं शिवलोकमार्गो भवतीति रूपकद्वयार्थः ।।१०९, ११० ।।।
चक्रे० : इत्थमनेकधा सन्मार्गप्ररूपणेऽपि रागाद्युपहतचेतसां बहुतरजीवानामुन्मार्गगामित्वमालोक्य सखेदं रागादिमाहात्म्यमाहुः -
देव० : इत्थमनेकधा शास्त्रेषु सन्मार्गप्रतिपादनेऽपि रागाद्युपहतचेतसां बहुतरजीवानामुन्मार्गगामित्वमवलोक्य सखेदं रागादिमाहात्म्यमाह -
रागोरगगरलभरो तरलइ चित्तं तवेइ दोसग्गी ।
कुणइ कुमग्गपवित्तिं महामईणं पि हा मोहो !।।१११ ।। चक्रे० : स्पष्टा । ।११।।
देव० : राग एव दारुणमरणहेतुत्वादुरगगरलं सर्पविषं तस्य भर उत्कर्षः, किं तरलयति विधुरयति चित्तं मनस्तथा तापयति दुनोति प्रस्तुतत्वाच्चित्तमेव, द्वेष एव सन्तापकत्वादग्निद्वेषाग्निर्मत्सरानलस्तथाकरोति विधत्ते, काम् ? कुमार्गप्रवृत्तिं कुदर्शनग्रहमिथ्याभिनिवेशवितथप्ररूपणानुष्ठानादिरूपां महामतीनामपि, आस्तां मुग्धबुद्धीनाम्, हा इति खेदे मोहोऽज्ञानमेतेन रागद्वेषमोहोपहतानां तत्त्वोपदेशानहत्वमाहेति गाथार्थः ।।१११ ।।