________________
१४२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
एवं तर्हि दीनादीनां दानं न देयमित्यापन्नम्, असङ्गतं चैतद्, अर्हताऽपि सांवत्सरिकदानस्य पात्राऽपात्रविचारपरिहारेण प्रवर्तितत्वात्, सत्यम्, मोक्षार्थं दानमाश्रित्याऽयं विधिरुक्तः, कृपादानं तु न क्वाऽपि जिनैर्निवारितम्, आह च -
सव्वेहिं पि जिणेहिं दुज्जयजियरागदोसमोहेहिं ।
सत्ताणुकंपणट्ठा दाणं न कहिंवि पडिसिद्धं ।। [ श्राद्धदिनकृत्य-२२२] तथा श्रवणं धर्माऽऽकर्णनम्, सुतीर्थे सुखेन तीर्यते भवोदधिरनेनेति सुतीर्थम्, तस्मिन् सुगुरुपार्श्व इत्यर्थः, सुसाधुसेवा सत्संगतिः, एष शिवलोकमार्ग इति रूपकद्वयार्थः ।। १०९, ११० ।।
देव० : आद्यं वन्दनकं नाम छन्दः सुगमम्, नवरमनेन प्राणिवधविरमणादीनि पञ्चमहाव्रतान्युक्तानि, व्यतिक्रमभणनं तु बन्धानुलोम्यादिति ।
तथा पूजा पूर्वोक्तशब्दार्था जिनेन्द्रेष्वनेनानन्यसामान्यतीर्थकृद्भक्तितः सम्यक्त्वशुद्धिरावेदिता, रतिरासक्तिस्तद्विषयविभागविचारणानुष्ठानसुशीलतेति यावद् व्रतेषु स्थूलप्राणातिपातविरमणादिषु द्वादशसु, यत्नश्च सामायिकपौषधयोरनयोश्च व्रतान्तर्गतत्वेऽपि पृथगुपादानं सावधव्यापारपरिहाररूपत्वेन प्रधानमोक्षाङ्गत्वाद्, दानं पूजानुग्रहबुद्ध्या वितरणम्, सुपात्रं ज्ञानदर्शनचारित्राधारः साधुस्तस्मिन्, अनेनापात्रे दानमनर्थफलमेवेति सूचयति । यदुक्तं प्रज्ञप्त्याम् -
'समणोवासगस्स णं भंते ! तहारूवं असंजय - अविरय - अपडिहयपच्चक्खायपावकम्म फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंत सो पावेकम्मे कज्जइ, नत्थि से कावि निज्जरा कज्जइत्ति ।
एवं तर्हि दीनादीनां दानं न देयमित्यापन्नम्, असङ्गतं चैतद्, अर्हतापि सांवत्सरिकदानस्य पात्राऽपात्रविचारविरहेण प्रवर्तितत्वात्, सत्यम्, गुणबुद्ध्या दानमाश्रित्यायं विधिरुक्तः, कृपादानं तु न क्वापि जिनैर्निवारितमित्याह च -
सव्वेहिं पि जिणेहिं दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंवि पडिसिद्धं ।। [श्राद्धदिनकृत्य-२२२]
१. मोक्षार्थं T.B.C