________________
१३९
३-मार्गतत्त्वम् गा-१०७
__ १३९ * उपदेशमालायाम्-५१८, ५१९ * तान् आत्मानं च दुर्गतौ क्षिपतीति निगमयन्नाह -
सावज्जजोगपरिवज्जणाए सव्वुत्तमो जईधम्मो ।
बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। तस्मात् स्थितमेतत् सावद्ययोगपरिवर्जनया सपापव्यापारपरिहारलक्षणया हेतुभूतया सर्वोत्तमो यतिधर्मः साध्वाचारो मोक्षमार्ग इति शेषः, द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथस्तद्धेतुत्वात् तावपि मोक्षमार्गाविति ।।५१८ ।। शेषाणां का वार्तेत्यत आह -
सेसा मिच्छद्दिट्ठी गिहिलिंगकुलिंगदवलिंगेहिं ।
जह तिन्नि उ मुक्खपहा संसारपहा तहा तिण्णि ।। शेषाः प्रोक्तव्यतिरेकिणो मिथ्यादृष्टयो विपरीताभिनिवेशाद् भवानुयायिन इत्यर्थः । के ते ? अत आहगृहिलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैः करणभूतैर्ये वर्तन्ते, एवं च स्थिते किं सम्पन्नमित्याह-यथा 'तिन उ' त्ति त्रय एव मोक्षपथाः सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा निर्वाणमार्गाः, संसारपथा भवमार्गास्तथा त्रय एव, गृहस्थचरकादिपार्श्वस्थादिरूपा इति ।।५१९ ।।
चक्रे० : अथ कथं सुयत्यादयो मोक्षमार्गा भवन्ति परे च नेत्याहुः - देव० : अथ कथं सुयत्यादयो मोक्षमार्गा भवन्त्यपरे च नेत्याह -
सम्मत्तनाणचरणा मग्गो मोक्खस्स जिणवरुद्दिट्ठो ।
विवरीओ उम्मग्गो नायव्वो बुद्धिमंतेहिं ।।१०७।। चक्रे० : सम्यग्ज्ञानचरणानि मार्गो मोक्षस्य जिनवरोद्दिष्टः, तानि च सुयत्यादिष्वेव सन्ति न गृहिलिङ्गादिषु, विपरीत उन्मार्गो ज्ञातव्यो बुद्धिमद्भिः ।।१०७ ।।
देव० : सम्यक्त्वज्ञानचरणानि, पुंस्त्वं प्राकृतप्रभवम्, मार्गो मोक्षस्य जिनवरोद्दिष्टः सर्वविदाख्यातोऽनेन मार्गस्याविसंवादित्वमाह तानि च सर्वथात्रैव सुयत्यादिषु, न गृहिलिङ्गादिष्विति, विपरीतो मिथ्यात्वाज्ञानाविरतिस्वरूप उन्मार्ग उत्पथो ज्ञातव्यो बुद्धिमद्भिरिति गाथार्थः ।। १०७।। १. मुक्खस्स PK