________________
१३८
रणम - सम्यक्त्वप्रकरणम
संसारसागरंमिणं परिब्भमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दवलिंगाई ।। [उपदेशमाला-५२१] किञ्चान्यत्अन्यलिङ्गकृतं पापं जिनलिङ्गेन शुद्ध्यति ।
जिनलिङ्गकृतं पापं वज्रलेपोपमं मतम् ।। [ ] इति । शोभनं सर्वसंवरप्रतिपत्तितो यतते प्रतिलेखनादिसामाचार्यामुद्यच्छतीति सुयतिः सुसाधुः, शोभनं श्रद्धानज्ञानवत्तया सुयतिभ्यो जिनवचनं श्रृणोतीति सुश्रावकः । तथा चोक्तम् -
संपत्तदंसणाई पइदियहं जइजणा सुणेई य ।
सामायारिं परमं जो खलु तं सावगं बिंति ।। [श्रावकप्रज्ञप्ति-२] संविग्ना मोक्षकाङ्क्षिणः सुसाधवस्तेषां पक्षः परिग्रहः स विद्यते येषां ते संविग्नपक्षिणः पूर्ववत् त्रयो मोक्षमार्गाः, ननु पूर्वं मोक्षमार्गद्वैविध्यमेवोक्तमधुना तु त्रैविध्यमिति कथं न विरोधः ? सत्यम्, तृतीयमार्गस्याप्रधानत्वादल्पत्वात्कादाचित्कत्वाञ्च तत्र न विवक्षा, अत्र तु संसारमार्गत्रैविध्यप्रस्तावात्तद्भणनमित्यविरोधः, तत्सम्भवस्तल्लक्षणं चैताभ्यो गाथाभ्योऽवसेयम् । तथाहि -
जइ न तरसि धारेउं मूलगुणभरं सउत्तरगुणं च । मोत्तूण तो तिभूमी सुसावगत्तं वरतरागं ।। [उपदेशमाला-५०१] अच्चणुरत्तो जो पुण (लिंगधारणेऽत्यनुरक्तो मनाक् सशूकश्च) न मुयइ बहुसोवि पन्नविज्जतो (द्रव्यलिङ्गम्) संविग्गपक्खियत्तं करेज्ज लब्भिहिसि तेण पहं ।। [उपदेशमाला-५२२] तथा - संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय ।
अत्तट्ठा न वि दिक्खइ देइ सुसाहूण बोहेउं ।। [उपदेशमाला-५१४, १५, १६] इति गाथार्थः ।। १०६।।